________________
श्रीभग० लघुवृत्तौ
न्तेभ्यः षड् योजनशतानि लवणमवगाह्य पयोजनशतायामविष्कम्भाः क्रमेणाश्वमुखहस्तिमुख सिंह मुखव्याघ्रमुखनामानो द्वीपा : स्युः, तत्प्रतिपादकाश्चान्ये ४ उद्देशकाः स्युः १८ ॥ एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणमवगाह्य सप्तयोजनशतायामविष्कम्भाः अश्वकर्णहस्तिकर्णअकर्णकर्णप्रावरणद्वीपाः स्युः, तत्प्रतिपादकाश्चापरे चत्वार उद्देशकाः स्युरिति २२ ।। एतेषामेवाश्वकर्णादीनां तथैवाष्ट योजनशतानि लवणमवगाह्याष्ट्रयोजनशतायामविष्कम्भा उल्कामुखमेघमुख विद्युन्मुखविद्युद्दन्तनामानो द्वीपाः, तत्प्रतिपादकाश्चान्ये ४ उद्देशकाः स्युरिति २६ ॥ एतेषामेवोल्कामुखद्वीपादीनां तथैव ९ योजनशतानि लवणमवगाह्य ९ योजनशतायामविष्कम्भाः घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानों द्वीपाश्चत्वार उद्देशकाः स्युरिति ३० ।। इत्येवमादितोऽत्र त्रिंशत्तमः शुद्धदन्तोदेशक इति ॥ नवमशतके त्रिंशत्तम उद्देशकः ९-३० ॥
उक्तरूपाचार्थाः केवलिधर्मात् ज्ञायन्ते, तं चाश्रुत्वापि कोऽपि लभत इत्याद्यर्थवाचकमेकत्रिंशत्तममुद्देशकमाह, तस्येदमादिसूत्रं 'रायगिहे 'त्ति (सू. ३६४) तत्र 'असोच 'त्ति अश्रुत्वा - धर्म्मफलवाचकं वचनमनाकर्ण्य, प्राक्कृतधर्मानुरागादेवेत्यर्थः, 'केवलिस्स व 'त्ति केवलिनो - जिनस्य 'केवलिसावंग' त्ति येन केवली स्वयं पृष्टः श्रुतं च येन तद्वचनमसौ केवलिश्रावकस्तस्य, 'उवासगस्स' त्ति केवल्युपासनां विदधानेन केवलिनाऽन्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकस्तस्य, 'तप्पक्खियस्स' त्ति' केवलिंपाक्षिकस्य स्वयंबुद्धस्य धर्म- श्रुतचारित्ररूपं 'लभेज' त्ति प्राप्नुयात् 'सवणयाए'ति श्रवणतया, श्रोतुमित्यर्थः, 'नाणावरणिजाणं 'ति ज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेन अवग्रहमत्यावरणादिभेदेन चं बहुत्वात् इह च क्षयोपशमग्रहणात् मत्यावरणाद्येव तद् ग्राह्यं, न तु केवलावरणं, तत्र क्षयस्यैव भावात् ज्ञानावरणीय क्षयोपशमश्च गिरिसरिदुपल घोलनान्यायेनापि कस्यचित्
• शतके १४ उद्देशः