________________
श्रीभग० लघुवृत्तौ
णामनुपंजना उक्ता, इह तु सा नास्ति, तथाविधनराणां तत्राभावात्, एवं च त्रीणि नानात्वस्थानान्युक्तानि, पुनरन्यान्यपि स्थित्यादीनि, किन्तु तानि सावधानतया वाच्यानि, ९ तृतीयः अयं चैको रुकद्वीपोदेशक इहोक्तः, अथ प्रकृतमुच्यते - किमंतमिदं जीवाभिगममूत्रमिह वाच्यमित्याह - 'जाव' त्ति यावच्छुद्धदन्तद्वीपः शुद्धदन्ताख्याष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत्, साऽपि कियद् दूरं वाच्येत्याह'देवलोगपरिग्गह' त्ति देवलोकः परिग्रहो येषां ते, देवगतिगामिन इत्यर्थः, इह चैकैकस्मिन्नंतरद्वीपे एकैक उद्देशक उक्तः, तत्र | चैकोरुकद्वीपो देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र 'कहण्णं भंते! दाहिणिल्लाणं आभासियमणू साणं आभासिए नामं दीवे पण्णत्ते ?, गोयमा ! जंबुद्दीवे चुल्ल हिमवंतवासहरपव्ययस्स दाहिणपुरच्छिमिल्लाओ चरमंताओ लवणसमुदं तिष्णि जोयणसयाई ओगाहित्ता, एत्थ णं दाहिणिल्लाणं आभासियनामं दीवे' शेषमेकोरुकद्वीपवदिति, नवमे ४ ॥ एवं वैषाणिकद्वीपोदेशकोऽपि, नवरं दक्षिणापराच्चरमान्तादिति, नवमे ५ ।। एवं लाङ्गुलिकद्वीपोदेशकोऽपि, नवरं उत्तरापराच्चरमान्तादिति नवमे ६ ।। एवं हयकर्णद्वीपोदेशकोऽपि नवरमेकोरुकस्योत्तरपौरस्त्याच्चरमान्ताल्लवणं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपः स्यादिति | नवमे ७ ॥ एवं गजकर्णद्वीपोदेशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराच्चरमान्ताल्लवणमवगाह्य ४ योजनशतानि हयकर्ण - द्वीपोपमः स्यादिति नवमे ८ ।। एवं गोकर्णद्वीपोदेशकोऽपि, नवरमसौ वैपाणिकद्वीपस्य दक्षिणापराच्चरमान्तादिति नवमे ९ ॥ एवं शष्कुलीकर्णद्वीपो देशकोऽपि, नवरमसौ लाङ्गुलिकद्वीपस्योत्तरापराच्चरमान्तादिति नवमे १० ॥ एवमादर्शमुखद्वीपमेण्डमुखद्वीपोऽयोमुखद्वीपगोमुखद्वीपा : हयकर्णादिद्वीपचतुष्कक्रमेण पूर्वोत्तरपूर्वदक्षिणदक्षिणापर अपरोत्तरेभ्यश्वरमान्तेभ्यः पञ्च योजनशतानि लवणमवगाह्य पश्चयोजनशतायामविष्कम्भाः स्युः तत्प्रतिपादकाः ४ उद्देशकाः स्युः १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरम:
„ÓCDÓCDOFDŒE JOCDÓC DOC JÓG POP DO
१९ शतके ४ उद्देशः
॥१५४॥