________________
श्रीभग लघुवृत्ती
९ शतके ३ उद्देशः
animumLHAD ALADIESounteliminull our vinor IIITIARRIA
॥१॥" पुक्खरोदे णं भंते ! समुद्दे केवइया चंदेति प्रश्नः, उत्तरमिदं दृश्यम्-'संखेजा चंदा पभासिंसु"एवं सव्वदीवसमुद्देसुत्ति प्रागुक्तप्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्च चन्द्रादय इत्युत्तरेणेत्यर्थः, द्वीपसमुद्रनामानि चैवम्-पुष्करोदसमुद्रानन्तरो वरुणवरो द्वीपः ततो वरुणोदाब्धिः,एवं क्षीरवरक्षीरोदौ घृतवरघृतोदौ क्षोदवरक्षोदोदो नन्दीश्वरनन्दीश्वरोदौ अरुणारुणोदौ अरुणवरारुणवरोदौ अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदौ कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदौ रुच| कवररुचकवरोदौ रुचकवरावभासरुचकवरावभासोदौ इत्याद्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति ।।नवमशते द्वितीयः।।
द्वितीये द्वीपवक्तव्योक्ता, तृतीयेऽपि असो वाच्येति, तत्रेदमादिसूत्रम्-'रायगिहे' इत्यादि (सू० ३६३) 'दाहिणिल्लाण'ति उत्तरान्तरद्वीपव्यवच्छेदार्थ, एवं जहा जीवाभिगमे' सए दस किंचिविसेसूणे परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण वणसंडेण सव्वओ समंता संपरिक्खित्ते' इत्यादि, इह वेदिकावनखंडकल्पवृक्षयुगलनरनारीवर्णकोऽभिधीयते, तथा तत्र मनुष्याश्चतुर्थभक्ताहाराः, ते च पृथ्वीरसपुष्पफलाहाराः, तत्पृथ्वी रसतः खण्डशर्करादितुल्या,ते च मनुजा वृक्षगृहाः, तत्र गृहाद्यभावः, तन्म| नुजस्थितिः पल्योपमासङ्ख्येयभागप्रमाणा, षण्मासावशेषायुपश्चैते मिथुनकानि प्रसुवते, ८१ दिनानि ते अपत्यानि पालयन्ति, उच्छ्वसितादिना ते मृत्वा देवेषूत्पद्यते इत्यादयोऽर्थाश्च वाच्याः, वाचनान्तरे त्वेवं 'जहा जीवाभिगमे उत्तरकुरुवत्तव्ययाए णेयव्यो, णाणत्तं अट्ठधणुसया उस्सेहो, चउसट्ठी पिट्ठकरंडया, अणुसजणा नत्थि'त्ति, तत्रायमर्थः-उत्तरकुरुनराणां ३ गव्युतान्युत्सेहः, इह । त्वष्टौ धनुःशतानि, तथा तेषु नराणां २५६ पृष्ठकरण्डकानि इह तु ६४, तथा उत्तराए णं भंते ! कुराए कइविहा मणुस्सा अणुसजंति ?, गोयमा ! छव्विहा मणुस्सा अणुसजंति, तंजहा-पम्हगंधा मियगंधा अममा तेयली सहा सणिंचरा इत्येवं तत्र मनुष्या