________________
श्रीभग० लघुवृत्तौ
भाणियव्वाणी'ति कोऽर्थः १ - 'जस्स नाणावर तस्स नियमा अंतराइयं, जस्संतरा० तस्स नियमा नाणावरणिअं ? इत्येवमनयोर्मिथो नियमो वाच्य इति । अथ दर्शनावरणं पङ्किः सह चिन्त्यते - 'जस्से' त्यादि, अयं च गमो ज्ञानावरणीयसमपाठः, 'जस्स णं भंते! वेयणिज्ज' मित्यादिना तु वेदनीयं शेषैः पञ्चभिस्सह चिन्त्यते, तत्र 'जस्स वेयणिज्जं तस्स मोहणि सिय अथिसिय नत्थित्ति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयमोहनीये स्तः, क्षीणमोहस्य वेदनीयं तु, न मोहनीयं, 'परोप्परं नियम'त्ति, कोऽर्थः ? - यस्य वेदनीयं तस्य नियमादायुः यस्यायुस्तस्य नियमाद् वेदनीयं इत्येते वाच्ये, एवं नामगोत्राभ्यामपि वाच्यं, अन्तरायेण तु भजना, यतो वेदनीयमन्तरायं चाकेवलिनामस्ति, केवलिनां तु वेदनीयमस्ति, नत्वन्तरायं, अत उक्तं- 'जस्स वेयणिअं तस्संतरायं सिय अस्थि सिय नत्थि'त्ति अथ मोहनीयमन्यैश्चतुर्भिस्समं चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादकेबलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति, क्षीणमोहस्य त्वायुरेवेति, 'एवं नाम गोयं अंतराइयं च भाणियव्वं'ति, अयमर्थः -यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यान्नास्ति क्षीणमोहस्येवेति । अथायुरन्यैस्त्रिभिस्सह चिन्त्यते - 'जस्स णं भंते ! आउयमित्यादि, 'दोऽवि परुप्परं नियम'त्ति, कोऽर्थः ? - 'जस्स आउयं तस्स नियमा नामं जस्स नामं तस्स आउयं' ति इत्यर्थः, एवं गोत्रेणापि 'जस्स आउयं तस्संतराइयं सिय अत्थि सिय नत्थि 'त्ति यस्यायुस्तस्यान्तरायः स्यादस्त्य केवलिवत्, स्यान्नास्ति केवलिवदिति, 'जस्स णं भंते! नाम' इत्यादिना सामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद् गोत्रं यस्य गोत्रं तस्य नियमान्नाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्य केवलिवत्, स्यान्नास्ति के लिवदिति, एवं गोत्रान्तराययोरपि भजना भाव
८. शतके ९ उद्देशः