SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ ९ उद्देशः (सू. ३५७) एकैकस्य जीवस्य तावन्तः प्रदेशाः यावन्तो लोकाकाशस्य, कथं ?, यस्माजीवः केवलिसमुद्घातकाले सर्व लोकाकाशं व्याप्यावतिष्ठते तस्माल्लोकाशप्रमाणास्ते इति, 'अविभागपलिच्छेद'त्ति परिच्छिद्यन्ते परिच्छेदाः-अंशास्त एव सविभागा अपि स्युः अतः अविभागाश्च पलिच्छेदाश्चते अविभागपलिच्छेदाः, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयकर्मणोऽनन्ताः, कथं ?, ज्ञानावरणीयं यावतो ज्ञानस्याविभागभेदानावृणोति तावन्त एव तस्याविभागपलिच्छेदाः, दलिकापेक्षया वा अनन्ततत्परमाणुरूपाः, 'अविभागपलिच्छेदेहिंति तत्परमाणुभिः 'आवेढियपरिवेढियत्ति आवेष्टितपरिवेष्टितः-अत्यन्तवेष्टितः आवेष्टि(ष्ट्य)परिवे|ष्टितो वा, 'सिय नो आवेढिय'त्ति केवलिनं प्रतीत्य, तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य ज्ञानावरणीयाविभागपरिच्छेदैरावेष्टनपरिवेष्टनाभावादिति, 'मणूसस्स जहा जीवस्स'त्ति (सू. ३५८) 'सिय आवेढिय'त्ति वाच्यमित्यर्थः, मनुष्यापेक्षया आवेष्टितपरिवेष्टितत्वस्य तदितरस्य च सम्भवात् , एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यं, वेदनीयायुष्कनामगोत्रेषु पुनः | जीवपदे इव भजना वाच्या, सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावात् , अत आह-'नवरं वेयणिजस्से'त्यादि, अथ ज्ञानावरणं शेषैः सह चिन्त्यते-'जस्स णमित्यादि, 'जस्स पुण वेयणिजं तस्स नाणाव सिय अस्थि सिय नस्थिति अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं, न ज्ञानावरणमिति, जस्स नाणा० तस्स मोहणिज्नं सिय अस्थि सिय नत्थि'त्ति अक्षपकं क्षपकं च प्रतीत्य, अक्षपकस्य हि ज्ञानावरणीयं मोहनीयं चास्ति, क्षपकस्य तु मोहक्षये यावत्केवलं नोत्पद्यते तावत् ज्ञानावरणीयमस्ति, न तु मोहनोयं, एवं यथा ज्ञानावरणीयं वेदनीयेन सहाधीतं तथाऽऽयुर्नामगोत्रत्रयेण सहाध्येयं, | उक्तप्रकारभजना सर्वेषु भाव्या, अन्तरायेण समं ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणीयं, निर्भजनमित्यर्थः, नियमा परुप्परं १५०॥ FRIDAudio
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy