________________
श्रीभग
शतके
लघुवृत्ती
९ उद्देश:
mmamta
|बहुत्वाभ्यां विकल्पाश्चत्वारः, द्विकसंयोगा अपि चत्वार एव इति प्रश्नः, उत्तरं तु स्यात् द्रव्य, द्रव्यान्तरासम्बन्धे सति, स्याद् | द्रव्यदेशो द्रव्यान्तरसम्बन्धे सति, शेषविकल्पानां तु निषेधः, परमाणोरेकत्वेन बहुत्वस्य द्विकसंयोगस्य चाभावादिति । 'दो | भंते'त्ति इहाष्टसु भङ्गेषु मध्ये आद्याः पञ्च स्युः,न शेषाः, तत्र द्वौ प्रदेशौ द्रव्यं कथं ?, यदा तौ द्विकप्रदेशिकस्कन्धतया परिणतौ | तदा द्रव्यं १, यदा तु द्वथणुकस्कन्धभावगतावेव तौ द्रव्यान्तरसबन्धप्राप्तौ तदा द्रव्यदेशः २, यदा तु द्वावपि तौ भेदेन स्थितो | तद्रा द्रव्यौ ३, यदा तु नावेव द्वथणुकस्कन्धतामनापद्य द्रव्यान्तरेण सम्बन्धप्राप्तौ तदा द्रव्यदेशौ ४, यदा तयोरेकः केवलतया स्थिती द्वितीयश्च द्रव्यान्तरेण सम्बद्धस्तदा द्रव्यं च देशश्च ५, शेषभेदानां निषेधोऽसम्भवादिति । 'तिन्नि भंते'त्ति त्रिषु प्रदेशेष्वष्टमभे| दवर्जाः सप्त विकल्पाः, तथाहि-यथा त्रयोऽपि त्रिप्रदेशिकस्कन्धतया परिणतास्तदा द्रव्यं १ यदा ते त्रिप्रदेशिकस्कन्धपरिणता
एव द्रव्यान्तरसम्बन्धप्राप्तास्तदा द्रव्यदेशः २ यदा ते त्रयोऽपि भेदेन स्थिताः द्वौ वा द्वथणुकीभूतावेकस्तु केवल एव स्थितस्तदा |'दवाइंति ३ यदा ते त्रयोऽपि स्कन्धतामागता एव द्वौ वा द्वयणुकीभृतावेकस्तु केवल एवेत्येवं द्रव्यान्तरेण सम्बद्धास्तदा 'दबदेसा यत्ति ४, यदा तु तेषां द्वौ द्वथणुकतया परिणतावेकश्च द्रव्यान्तरेण सम्बद्धः, अथवा एकः केवल एव स्थितो द्वौ द्वथणुकतया परिणम्य द्रव्यान्तरेण सम्बद्धौ तदा दव्वं च दबदेसे यत्ति, यदा तेषामेकः केवल एव स्थितो द्वौ च भेदेन द्रव्यान्तरेण सम्बद्धौ तदा 'दव्वं च दव्वदेसा यत्ति ६, यदा द्वौ भेदेन स्थितौ एकश्च द्रव्यान्तरेण सम्बद्धः तदा दवाई दबदेसे यत्ति ७, अष्टमविकल्पो न स्यात् , उभयत्र त्रिषु प्रदेशेषु बहुवचनाभावात् , प्रदेशचतुष्टयादौ तु अष्टमोऽपि सम्भवति, उभयत्र बहुवचनसद्भावा| दिति ॥ 'असंखेजत्ति (सू. ३५६) यस्मादसङ्ख्येयप्रदेशको लोकस्तस्मात् तत्प्रदेशा असङ्ख्येया एवेति ॥ 'एगमेगस्स'त्ति