SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ भवग्गहणेण 'त्ति उत्कृष्टज्ञानाराधनया तेनैव भवेन सिध्यति, उत्कृष्ट ( जघन्य ) चारित्राराधनायाः सद्भावे, 'कप्पोवएस' त्ति कल्पोपगेषु - सौधर्मादिदेवलोकेषु उत्पद्यते मध्यमचारित्राराधनासद्भावे, 'कप्पातीएसु'त्ति कल्पातीतेषु ग्रैवेयकादिषु उत्पद्यते मध्यमो त्कृष्टचारित्राराधनासद्भावे, 'उक्को० दंसणाराहण' त्ति इत्यत्र 'एवं चेव' त्तिकरणात् तद्भवसिद्ध्यादि दृश्यं, चारित्राराधनायाः तत्रोत्कृष्टाया मध्यमायाश्वोक्तत्वादिति, 'उक्को० चारिताराहण'त्ति 'एवं चेव'त्ति करणात् तद्भवसिद्वयादि दृश्यं, केवलं तत्र 'अत्थे गइए कप्पोवसु वा' इत्यभिहितं तदिह न वाच्यं उत्कृष्टचारित्राराधनावतः सौधर्मादिकल्पेष्वगमनात्, वाच्यं पुनः 'अत्थे गइए कप्पाईएस उववजइति सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनादेवेति, मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एवं, निर्वाणभवे पुनरुत्कृष्टत्वमवश्यंभावि इति ज्ञेयं, निर्वाणान्यथानुपपत्तेः इति, 'दोचेणं' ति अधिकृतनरभवापेक्षया द्वितीयेन नरभवेन, 'तचं 'ति अधिकृतनरभत्रग्रहणापेक्षया तृतीयं नरभवग्रहणं, एताश्चारित्राराधनायुता ज्ञानाद्याराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति 'सत्तड भवग्गहणाई'ति, यतश्चारित्राराधनाया एवेदं फलमुक्तं, यदाह"अट्ठ भवा उ चरित्ते"त्याद्यावश्यके, श्रुतसम्यक्त्व देश विरतिभवास्त्वसङ्ख्येया उक्ताः तेन चारित्राराधनारहिता ज्ञानदर्शनाराधना असङ्ख्येयभविका अपि स्युरिति, न त्वष्टभविका एवेति ॥ ' वण्णपरिणामे ति ( मू. ३५४) यः पुद्गलो वर्णांतरत्यागाद्वर्णान्तरं यात्ययं वर्णपरिणामः एवमन्यत्रापि, 'परिमंडलसंठाणे 'त्ति इह परिमण्डलसंस्थानं वलयाकारं यावत्करणात् 'वट्टसंठाणे तं संठाणे चउरंस संठाणपरिणाम'त्ति दृश्यं ।। ' एगे भंते ! पुग्गलत्थिकाए 'त्ति (सु. ३५५ ) पुद्गलास्तिकायस्थ - एकाणुकादि| पुद्गलराशेः प्रदेशो - निरंशोऽंशः पुद्गलास्तिकाय प्रदेशः परमाणुः द्रव्यं गुणपर्याययोगि, द्रव्यदेशो चाद्रव्यावयवः, एवमेकत्व OCDCLO ८ शतके ९ उद्देशः ॥१४९॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy