SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती ८ शतके ९ उद्देशः | एवं-लोकसिद्धन्यायेन खलु-निश्चयेन 'अण्णउत्थियत्ति इहान्यपूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति, न च । | किश्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात् , घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् , उच्यते चैवं-"क्रियैव फलदा पुंसां, न ज्ञानं | फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽवश्यके च 'जहा खरो चंदणभारवाही त्यादि १। अतस्ते प्ररूपरन्ति-शीलं श्रेयः, प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव शीलं श्लाघ्यं, पुरुषार्थसाधकत्वात् , श्रेयं वाश्रयणीयं पुरुषेण श्रेयोऽर्थिना, केचिदन्ये ज्ञानादेवेष्टसिद्धिमिच्छन्ति, न क्रियातः, ज्ञानवियुक्तस्य क्रियावतोऽपि फलसिद्ध्यदर्शनात् , यत उच्यते-विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथा दशकालिके च-'पढमं नाणं तओ दये'त्यादि, अतस्तयाहुः-श्रुतं-ज्ञानं श्रेयः-प्रधानं पुरुषार्थसिद्धिहेतुत्वात् , न तु शीलं, अन्ये तु ज्ञान| क्रियाभ्यां मिथो निरपेक्षाभ्यां फलमाहुः, ज्ञानं क्रियाशून्यमेव उपसर्जनीभूतक्रियं वा फलदं स्यात् , क्रियाऽपि ज्ञानशून्या उपसर्जनीभूतज्ञाना वा फलदा इति भावः, भणंति च-किश्चिद्वेदमयं पात्रं, किश्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥१॥ अतस्ते प्रोचुः-श्रुतं शीलं च द्वे अपि सफले, पुरुषस्य सिद्धिहेतुत्वात् , आहुजैना एवं 'नाणं पयासग'मित्यादि, २ तपस्संयमौ च शीलमेवेति, तथा 'संजोगसिद्धीइ फलं वयंति इत्यादि, द्वितीयव्याख्यानपक्षे मिथ्यात्वं, संयोगतः फलसिद्धेदृष्टत्वात् , एकैकस्य प्रधानतरविवक्षया अप्यसङ्गतत्वादिति, 'अहं पुण'त्ति अहं पुनर्गौतम ! एवमाख्यामि यावत् प्ररूपयामि, श्रुतयुक्तं शीलं | श्रेय एवं वाक्थशेषो दृश्यः, अथ कस्मादेवं ?, अत्रोच्यते-'एव'मिति, एवं-वक्ष्यमाणन्यायेन 'पुरिस'त्ति पुरुषप्रकारः 'सीलवं असुयवं'ति कोऽर्थः 'उवरए'त्ति उपरतो-निवृत्तः स्वमत्या पापात् 'अविण्णाय'त्ति अविज्ञातधर्मा, भावतोऽनधिगतश्रुतज्ञानो, ॥१४ ८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy