________________
८ शतके
श्रीभग० लघुवृत्तौ|
९ उद्देश:
असङ्ख्येयगुणाः, सर्वबन्धाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च पूर्वप्रतिपन्नानां बहुत्वं, वैक्रियसर्वबन्धकेभ्यो देशबन्धकाः असङ्ख्येयगुणाः, तैजसकार्मणयोरंबन्धका अनन्तगुणाः, यस्मात्ते सिद्धाः, ते च वैक्रियदेशबन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगुणत्वादिति, औदारिकशरीरस्य सर्वबन्धका अनन्तगुणाः, ते च वनस्पतिप्रभृतीन प्रतीत्य प्रत्येतव्याः, तस्यैवाबन्धका विशेषाधिकाः, एते हि विग्रहगतिसमापन्नाः समुद्घातगता वा स्युः, तत्र सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाच वक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतराः इति तेभ्यस्तदबन्धका विशेषाधिकाः, तस्यैव च औदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विग्रहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , तैजसकार्मणयोर्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्म| णयोर्देशबन्धकाः स्युः, तत्र च ये विग्रहगतिका औदारिकदेशबन्धकवैक्रियादिवन्धकाश्च ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त | इति ते विशेषाधिकाः, वैक्रियशरीरस्याबन्धका विशेषाधिकाः, यस्माद्वैक्रिवबन्धकाः प्रायो देवनारका एव, शेषास्तु तदवन्धकाः | सिद्धाश्च, तत्र सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यते तेन ते विशेषाधिका उक्ताः, आहारकाबन्धका विशेषाधिकाः, यमान्मनुध्याणामेवाहारकंशरीरं, वैक्रियं तु तदन्येषामपि, ततो वैक्रियबन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियावन्धकेभ्य आहारकाबन्धका विशेषाधिका इति, एतत्पूर्वाचार्यकृतगाथालिखनाभावाद् ग्रन्थगौरवभयाच्चैतद्यन्त्रकमप्यत्र न प्रस्तार्यते ॥ अष्टमशते समाप्तो बन्धः। तत्समाप्तौ च सम्पूर्ण नवमोद्देशकविवरणम् ।। 'रायगिहे'त्यादि तत्र 'सील सेयं सुयं सेयं सील सेयं ति (सू. ३५२ ) श्रुतशीलसंपन्ना नरा विचारयंतीति, 'एवं ति
பாபா போ பேடி பாதியாக வளமாகப் போர் பயப்பட போப் பாகன்