________________
श्रीभग लघुवृत्ती
शतके
९ उद्देशः
uradhamalSheelammamming
समये सर्वबन्धक उत्तरकालं तु देशबन्धक इति । अथाहारकशरीरयोगबन्धान्तरमाह-सव्वबधतरं जह० अंतोमुहत्तं', कथं ?, मनुष्य आहारकशरीरं श्रितः तत्र प्रथमसमये च सर्वबन्धकः, तत्रान्तर्मुहूर्त्तमात्रं स्थित्वा औदारिकशरीरं गतः, तत्राप्यन्तर्मुहूर्त स्थित्वा पुनरपि संशयाद्याहारकशरीरकरणकारणमुत्पन्नं, ततः पुनराहारकं शरीरं गृह्णाति, तत्र प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धान्तरमन्तर्मुहूर्त, द्वयोरप्यन्तर्मुहर्त्तयोरेकत्वविवक्षणादिति, उक्को० अणंतं कालं'ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह-'अणंताओ ओस० कालओ, खेत्तओ अगंता लोग'त्ति एतद्व्याख्यानं प्राग्वत् ।। अथ तत्र पुद्गलपरावर्त्तमानं किं स्यादित्याह-'अवति अपगतमद्धं अपार्द्ध, देशोनार्धमात्रमित्यर्थः, पुद्गलपरावर्त प्रागुक्तरूपं अपार्द्धमप्यर्द्धतः पूर्ण स्यादत आह-'देशोन'मिति, 'एवं देसबंधान्तरंपिपत्ति जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽपार्दू पुद्गलपरावर्त देशोनं, भावना प्रागुक्तानुसारेणेति । अथाहारकदेशबन्धकादीनामल्पबहुत्वमाह-'सव्वत्थोव'त्ति तत्र सर्वस्तोका आहारकस्य सर्वबन्धकाः, तत्सर्वबन्धकालस्याल्पत्वात् , देशबंधकास्सङ्ख्यातगुणाः, तद्देशबन्धकालस्य बहुत्वात् , असङ्ख्यातगुणास्तु ते न स्युः, यतो मनुष्या अपि सङ्ख्याताः, किं पुनराहारकदेशबन्धका ?, अबन्धकास्तेऽनन्तगुणाः, आहारकवपुर्हि मनुष्याणां, तत्रापि संयतानां, तेषामपि केषांचिदेव कहिंचिदेव कदाचिदेव स्यादिति, शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततः सिद्धवनस्पत्यादीनामनन्तुगुणत्वादनन्तगुणास्ते इति । अथ तैजसवपुःप्रयोगबन्धमाह-'नो सव्वबंधे'त्ति (सू.३४८) तैजसशरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति, अणाइए अपजवसिए'त्ति तत्रायं तैजसवपुर्वन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिसपर्यवसितो भव्यानामिति । तैजसवपुर्वन्धान्तरमाह-'अणाइयस्स'त्ति यतस्संसारस्थो जीवस्तैजसवपुर्बन्धेन द्वयरूपेणापि सदा|
P
॥१४६॥
Jamrailerani