________________
श्रीभग० लघुवृत्तौ
अविनिर्मुक्त एव स्यात् तस्मात् द्वयरूपस्य नास्त्यन्तरमिति । एतदल्पबहुत्वमाह - 'सव्वत्थोवति सर्वस्तोकास्तैजसवपुरबन्धकाः, सिद्धानामेव तदबन्धकत्वात्, देशबन्धका अनन्तगुणाः, तदेशबन्धकानां सर्वसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । अथ कार्मणवपुः प्रयोगबन्धमाह - 'नाणपडिणिययाए 'त्ति (सू. ३४९) ज्ञानस्य - श्रुतादेस्तदभेदात् ज्ञानवतां या प्रत्यनीकता तया, 'नाणनिहवणयाए 'त्ति ज्ञानस्य श्रुतवतां वा या निह्नवता - अपलपनं सा तयेति, 'नाणविसंवायण' त्ति ज्ञानस्य ज्ञानिनां वा विसंवादनयोगोव्यभिचारदर्शनाय व्यापारो यस्स तेन एतानि बाह्यकारणानि ज्ञानावरणीयकार्मणवपुर्वन्धे, अथ आन्तरं कारणमाह - 'नाणावे' त्यादि, 'दंसणपडिणीययाए 'त्ति दर्शनमिह चक्षुर्दर्शनादि, मोहनीयसूत्रे 'तिब्वदंसणमोहणिजयाए 'ति तीव्रमिध्यात्वतयेति, 'तिब्वचरित्त'त्ति कषायव्यतिरिक्तं नोकपायलक्षणं चारित्रमोहनीयमिह ग्राह्यं, 'तिब्वकोहं'ति तीव्रक्रोधतया कषायचारित्रमोहनीयस्य प्रागुक्तत्वादिति, 'कुणिमाहारेणं' मांसभोजनेन 'माइल'त्ति परवंचनमतितया 'नियडिल्ल'त्ति निकृतिर्वश्वनाथं चेष्टा, मायाप्रच्छादनार्थं मायान्तरमित्येके, अत्यादरकरणेन परवञ्चनमित्यन्ये, तद्वत्तयेति, 'पगइ'त्ति स्वभावतः परानुपघातितया 'साणुक्कोसति सानुकम्पतया 'कायउज्जु' ति कायर्जुकतया - परावंचनपरया कायचेष्टया 'भावज्जुय'त्ति भावर्ज्जुकतया-परावञ्चनपरमनःप्रवृत्येति, 'भासज्जुय'त्ति भाषर्जुकतया - भाषार्जवेनेति, 'अविसंवायण'त्ति अविसंवादनयोगेन, कायर्जुकतादित्रयं वर्त्तमानकालाश्रयं अविसंवादनयोगस्त्वतीतवर्त्तमानकालद्वयाश्रयः, यो विशेषस्स उच्यते । 'सव्वत्थोवा जीवा आउयस्स कम्मसत्ति (सू. ३५१) सर्वस्तोकत्वमेव आयुर्बन्धाद्धायाः स्तोकत्वात्, अबन्धाद्धायास्तु बहुगुणत्वात्, तदबन्धकास्सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः कस्मान्नोक्ताः ?, तदबन्धाद्वाया असङ्ख्यातजीवितानाश्रित्यासङ्ख्यातगुणत्वात्, उच्यते, इदमन
POLSIEJÕEPEPÍCHICPOLJOLDOG
८ शतके १९ उद्देशः