________________
श्रीभग०
८शतके
oक्ष
लघुवृत्ती
नाह-'जीवस्स'त्ति, 'एवं चेवत्तिकरणात् 'तिसमऊणाई' इति दृश्यं, 'उकोसेणमणंतं कालं'ति इह कालानन्तत्वं वनस्पतिकायस्थितिकालापेक्षया, अनन्तकालमित्युक्तं तद्विभजनार्थमाह-'अगंताउत्ति अयमभिप्रायः-तस्यानन्तकालस्य समयेषु अवसर्पिणीसमयैरपहियमाणेषु अनन्ता अवसर्पिण्युत्सर्पिण्यः स्युरिति 'कालओत्ति इदं कालापेक्षया मानं, खेत्तओत्ति क्षेत्रापेक्षया पुनरिदं-'अणंता लोग'त्ति, अयमर्थः-तस्थानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपहियमाणेषु अनन्ता लोकाः स्युः, अथ तत्र कियन्तः पुद्गलपरावर्ताः स्युरत आह-'असंखिज'त्ति, पुद्गलपरावर्तलक्षणं सामान्येन पुनरिदं-दशभिः कोटाकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ता उत्सर्पिण्यवसर्पिण्योऽनन्ताः पुद्गलपरावर्ताः, एतद्विशेषलक्षणमिहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवासङ्ख्यातत्वनियमनायाह-'आवलिए'त्ति असङ्ख्यातसमयसमुदाय आवलिकेति, देसबंधंतरंति,कथं १, पृथ्वीकायिको देशबन्धकः सन् मृतः, पृथ्वीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतस्तन् पुनरविग्रहेण पृथ्वीष्वेवोत्पन्नस्तत्र सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवं सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति, वणस्सइकाइयाणं दुन्नि खुड्डाई वनस्पतिकायिकानां जघन्यतः सर्वबन्धांतरं द्वे क्षुल्लकभवग्रहणे, एवं चेव'त्तिकरणात् त्रिसमयोने इति दृश्यं, कथं ?, वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः, तत्र विग्रहस्य समयद्वयमनाहारकस्तृतीयसमये सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिपु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिष्वेवोत्पन्नः, प्रथमसमये सर्वबन्धकोऽसाविति सर्वबन्धयोस्त्रिसमयोने द्वे क्षुल्लकमवग्रहणे अन्तरं भवतः, उक्कोसेणं'ति अयं पृथिव्यादिषु कायस्थितिकालः, एवं दे सबंधंतरंपित्ति यथा पृथ्व्यादीनां देशबन्धा-10॥१४३॥ न्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावनाऽस्य प्राग्वत् , 'उक्कोसेणं पुढविकालो त्ति उत्कर्षेण वन