________________
लघुवृत्तौ ।
ट शतके ९ उद्देश:
| त्रिसप्ततिलक्षणेन ३७७३ मुहूर्त्तगतोच्छवासराशिना भागे हृते यल्लब्धं तदेकत्रोच्छासे क्षुल्लकभवग्रहणपरिमाणं स्यात् , अयमभिप्रायो
येषामंशानां त्रिभिस्सहस्रः सप्तभिश्च त्रिसप्तत्यधिकशतैः क्षुल्लकभवग्रहणं स्यात् तेषामंशानां पश्चनवत्यधिकानि त्रयोदशशतानि अष्टा| दशस्यापि क्षुल्लकभवग्रहणस्य तत्र स्युरिति, तत्र यः पृथिवीकायिकस्त्रिसमयेन विग्रहेणागतः स तृतीयसमयेन सर्वबन्धकः, शेषेषु | देशवन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतो, मृतस्सन् अविग्रहेणागतो यदा तदा सर्वबन्धकः स्यात् , एवं ये ते विग्रहसमयास्तैरूनं क्षुल्ल
कमित्युच्यते, 'उक्कोसेगं बावीसमिति 'देसबंधो जेसिं नत्यि'ति अयमर्थः-अप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकम| वग्रहणं त्रिसमयोनं जघन्यतो देशबन्धः, यतस्तेषां वैक्रियवपुर्नास्ति, वैक्रियवपुषि हि सति एकसमयो जघन्यतः औदारिकदेशबन्धः प्रागुक्तयुक्त्या स्यादिति, 'उकोसेणं जा जस्से'ति तत्रापां वर्षसप्तसहस्राणि स्थितिरुत्कर्षतः, वह्वेरहोरात्राणि त्रीणि, वनस्पतीनां १० वर्षसहस्राः, द्वीन्द्रियाणां १२ वर्षाणि, त्रीन्द्रियाणां ४९ दिनानि, चतुरिन्द्रियाणां ६ मासाः, तत एषामुत्कृष्टा स्थितिः | सर्वबन्धसमयोना स्यादिति, 'जेसिं पुण'त्ति ते च वायवः पञ्चेन्द्रियतिर्यङ्नराश्च, एषां जघन्यतो देशबन्ध एकं समयं, भावना प्रागिव, 'उक्कोसेणं'ति वायूनां ३ वर्षसहस्राण्युत्कर्षतः स्थितिः, पञ्चेन्द्रियतिर्यग्नराणां पल्योपमत्रयम् , इयं देशबन्धस्थितिरुत्कर्षतः सर्वबन्धसमयोना स्यादिति । उक्त औदारिकवपुःप्रयोगबन्धकालः, अथ तदन्तरमाह-'ओरालिय'त्ति सर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेणौदारिकशरीरे आगतः, तत्र द्वौ समयावनाहारकः, तृतीयसमये सर्वबन्धकः, क्षुल्लकभवं च स्थित्वा मृत औदारिकशरीरिष्वेवोत्पन्नस्तत्र प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोनः, 'उक्कोसेण"ति उत्कृष्टतस्त्रयस्त्रिंशत्सागराणि पूर्वकोटिसमयाभ्यधिकानि सर्वबन्धान्तरं स्यात् ,
॥१४॥