SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीभग बाट शतके लघुवृत्ती स्नेहभृततप्ततापिकायां प्रक्षिप्तः प्रथमसमये घृतादि गृह्णात्येव, शेषेषु समयेषु गृह्णाति विसृजति च, एवमयं जीवः प्राक्तनं वपुस्त्यक्त्वा यदाऽन्यद् गृह्णाति तथा प्रथमसमये उत्पत्तिस्थानगतान् वपुर्योग्यपुद्गलान् गृह्णात्येव इत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृह्णाति विसृजति च, एष देशे बन्धः, तेनौदारिकवपुषो देशबन्धस्सर्वबन्धश्चास्ति, सर्ववन्धे 'एक समय'ति अपूपदृष्टान्तेनैव तत्सर्वबन्धस्यैकसमयत्वात् , 'देसबंधे इत्यादि, तत्र यदा वायुर्मनुष्यादिर्वा वैक्रियं कृत्वा त्यक्त्वा च पुनरौदारिकस्य | समयमेकं सर्ववन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वन्नेकसमयानन्तरं म्रियते तदा जघन्यत एकं समयं देशबन्धेऽस्य स्यादिति, 'उको सेणं तिण्णि पलिओवमाई समऊणाई'ति, कथं ?, यस्मादौदारिकशरीरिणां ३ पल्योपमानि उत्कृष्टा स्थितिः, तेषु च प्रथम| समये सर्वबन्धक इति समयन्यूनानि ३ पल्योपमानि उत्कर्षत औदारिकवपुषां देशबन्धकालः स्यात् , 'एगिदियओरालिए'त्यादि, | देशबन्धे 'जहाणेणं एक समयंति, कथं ?, वायुसैदारिकशरीरी वैक्रियं वपुर्गतः,पुनरौदारिकप्रतिपत्तौ सर्वबन्धको भृत्वा देशबन्ध| कश्चैकं समयं भूत्वा मृत इत्येवमिति, उक्कोसेण बावीस मिति, एकेन्द्रियाणामुत्कर्पतो २२ वर्षसहस्राणि स्थितिः, तत्रासौ प्रथम| समये सर्वबन्धकः, शेषकालं देशबन्धकः, एवं समयोनानि २२ वर्षसहस्राण्येकेन्द्रियाणामुत्कर्षतो देशबन्धकाल इति, 'पुढविका|इए'त्यादि, 'देसबंधे जहण्णेणं खुड्डागं भवग्गह'त्ति, कथं ?, औदारिकशरीराणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च | गाथाभिर्निरूप्यते-"दोणि सयाई नियमा छप्पण्णाई पमाणओ हुँति । आवलियपमाणेणं खुड्डागभवग्गहणमेयं ॥१॥ पण्णढि सह|स्साई पंचेव सयाई तहय छत्तीसा । खुड्डागभवग्गहणा हवंति अंतोमुहुत्तेणं ॥२॥ सत्तरस भवग्गणा खुड्डागा हुँति आणुपाणंमि । तेरस चेव सयाई पंचाणउयाई अंसाणं ॥३॥" इहोक्तलक्षणस्य ६५५३६ मुहूर्तगतक्षुल्लकभवग्रहणराशेः सहस्रत्रयसप्तत्रिंशच्छत 1- மாயாமயாயடிப்பா பார்ப்பயாம பதியமா யார் யா டி பேர்
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy