SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीभग दशतके लघुवृत्ती अन्तरे-मध्येऽवस्थितस्य, पश्चमसमय इत्यर्थः, यद्यपि च षष्ठादिसमयेषु तैजसादिवपुस्सङ्घातस्समुत्पद्यते तथाप्यभूतपूर्वतया पञ्चमसमय एवासौ स्यात् , शेषेषु अनुभूतपूर्वतयेतिकृत्वा 'अन्तरा मंथे वट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं बंधे ति तैजसकार्मणवपुर्वन्धसङ्घातः समुत्पद्यते, 'किं कारणं'ति कुतो हेतोः ?, उच्यते-'ताहेति तदा समुद्घातनिवृत्तिकाले 'सेति तस्य केवलिनः प्रदेशा-जीवप्रदेशाः, 'एगत्तीगय'त्ति एकत्वं गताः-सङ्घातमापन्नाः स्युः, तदनुवृत्त्या च तैजसादिशरीरपदेशानां बन्ध उत्पद्यत इति प्रकृतं, बन्धपक्षे तु 'तेयाकम्माणं बंधे समुप्पजइत्ति तैजसकार्मणाश्रयभूतत्वात् तैजसकार्मणवपुःप्रदेशास्तेषां बन्धः समु. त्पद्यत इति व्याख्येयमिति, 'वीरियसजोगसद्दब्वयाए'त्ति वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः योगा-मनःप्रभृतयः सह योगवर्त्तत इति सयोगः सन्ति विद्यमानानि द्रव्याणि-तथाविधपुदंगला यस्य जीवस्यासौ सद्रव्यः, वीर्यप्रधानस्सयोगो वीर्यसयोगः स चासौ द्रव्यं चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसद्रव्यतया-सवीर्यतया सयोगतया सद्रव्यतया च जीवस्य तथा 'पमायपचय'त्ति प्रमादप्रत्ययात् प्रमादहेतोः तथा 'कम्मं वत्ति कर्म-चैकेन्द्रियजात्यादिकमुदयवर्ति 'जोगं वत्ति योगं च काययोगादिकं 'भवं वरि तिर्यग्भवादिकमनुभूयमान 'आयुष्कं' तिर्यगायुष्कायुदयवर्ति पडुच्च'त्ति प्रतीत्य-आश्रित्य 'ओरालिय'त्ति औदारिकवपुःप्रयोगसम्पादकं यन्नाम तस्य कर्मण उदयेनौदारिकवपुःप्रयोगबन्धः, स्यात् इति शेषः, एतानि वीर्यसयोगसद्रव्यतादीनि पदान्यौदारिकवपुःप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, 'एगिदिये' त्यादि 'एवं चेव'च्यनेनाधिकृतसूत्रस्य पूर्वसूत्रसदृक्त्वाभिधानेऽपि 'ओरालियसरीरप्पओगनामए' इत्यत्र पदे 'एगिदियओरालियसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदारिकवपुःप्रयोगबन्धस्येहाधिकृतत्वात् ,एवनुत्तरत्रापि वाच्यमिति, देसबंधे सव्वबंधेऽवि'त्ति तत्र यथाऽपूप: ॥१४॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy