SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीभग साहणण'ति सबैण सर्वसंहननलक्षणो बन्धः,क्षीरनीरादीनामिवेति सर्वसंहननबन्धः, सगड'त्ति गन्त्री 'रह'त्ति स्यन्दनः जाण'त्ति शतके लघुवृत्तौ ।। यानं लघुगत्री 'जुग्ग'त्ति युग्यं गोल्लविषयप्रसिद्ध द्विकरप्रमाणवेदिकोपशोभितं जपानं 'गिल्लि'त्ति हस्तिन उपरि मनुष्यं गिलतीव९ उद्देशः | कोल्लररूपा, थिल्लिति अड्डपल्लाणं 'सीया' शिविका कूटाकारणाच्छादितो जपानविशेषः, 'संदमाणिय'त्ति पुरुषप्रमाणजम्पान विशेषः, लोहि'त्ति मंडकादिपचनभाजनं लोहरडीति लोके 'लोहकडाह'त्ति प्रतीतं 'कडुच्छुय'त्ति परिवेषणपात्रं, लोके कडछीति, |'भंड'त्ति मृन्मयभाजनं, मत्त'न्ति अमन-भाजनविशेषस्ताम्रस्येति 'उबगरण'त्ति नानाविधं तदन्योपकरणं 'पुव्वप्पओगपञ्चइ पति पूर्वः प्राकालासेवितः प्रयोगः-जीवव्यापारो वेदनाकाथादिसमुद्वातरूपः प्रत्ययः-कारणं यत्र शरीरबन्धे स तथा स एव । पूर्वप्रयोगप्रत्ययिकः, 'पञ्चुप्पन्नप्पओग'त्ति प्रत्युत्पन्न-अप्राप्तपूर्वो,वर्तमान इत्यर्थः,प्रयोगः-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पन्नात्ययिकः, 'तत्य तत्यत्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, तेसु तेसुत्ति अनेन समुद्घातकारणानां वेदनादीनां बाहुल्यमुक्तं, 'समोहन्नमाणागंति समुद्धन्यमानाना-समुद्घातं शरीराद् बहिर्जीवप्रदेशप्रक्षेपलक्षणं गच्छतां 'जीवप्पदेसाणंति इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात् 'तावस्थ्यात् तद्व्यपदेश'इति न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिते द्रष्टव्यं, शरीरबन्ध इत्यत्र तु पझे समुद्घातेन विक्षिप्य सङ्कोचितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामिवेति, 'बंधेत्ति बन्धो-रचनाविशेषः,'जण्णं केवली'ति केवलिसमुद्घाते दण्ड १ कपाट२ मथिकरणा३न्तरपूरण ४ लक्षणेन समुपहतस्य विस्तारितजीवप्रदेशस्य ततः-समुद्घातात् प्रतिनिवर्तमानस्य प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादित्यतो विशेषमाह-'अंतरा मंथेवट्टमाणस्सति निवर्तनक्रियाया।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy