________________
श्रीभग
८ शतके
लघुवृत्तौ ।
९ उद्देशः
परिवर्त्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति, अथ तृतीयो भङ्गःप्रोच्यते-'तत्थ णं जे से साइए'त्ति सिद्धानां सादिरपयवसितो जीवप्रदेशबन्धः, शैलेश्यवस्थायां स्थापितप्रदेशानां सिद्धत्वेऽपि चलनाभावादिति, अथ चतुर्भङ्गीभेदत आह-'आलावणबंधे'त्ति आलाप्यते-आलीनं क्रियते एभिरिति आलापनानि-रज्ज्वादीनि तैस्तृणादिबन्धनमालापनबन्धः, 'अल्लियावणबंधे'त्ति अल्लियावणं-द्रव्यस्य द्रव्यान्तरश्लेषादिना आलीनस्य करणं तद्रूपो यो बन्धः स तथा, सरीरबंधे त्ति समुद्घाते सति यो विस्तारितसङ्कोचितजीवप्रदेशबन्धविशेषात् तैजसादिवपुःप्रदेशानां बन्धविशेषः सः, शरीरिबन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिसजीवप्रदेशानां सङ्कोचने यो बन्धस्स शरीरिबन्ध इति, सरीरप्पओगबंध'त्ति शरीरस्य-औदारिकादेर्यःप्रयोगेण-वीर्यान्तरायक्षयोपशमजनितव्यापारेण बन्धः-तत्पुद्गलोपादानं शरीररूपस्य वा प्रयोगस्य बन्धस्स शरीरप्रयोगबन्धः, 'वेत्तलय'त्ति वेत्रलताजलवंशकंवा 'वाग'त्ति वल्का'वरत्त'त्ति वरत्रा-चर्ममयी रज्जुः शनादिमयी वा वल्ली वपुष्यादिका कुशा-निर्मूला दर्भाः दर्भास्तु समूलाः आदिशब्दाच्चीवरादिग्रहः, अथ 'लेसणबंध'त्ति श्लेषणा-श्लेषद्रव्येण द्रव्ययोस्सम्बन्धनं तद्रूपो यो बन्धस्स तथा, उच्चयबंधे'त्ति ऊर्ध्व चयनं-राशीकरणं तद्रपो बन्धः उच्चयबन्धः,'समुच्चय'त्ति सङ्गतः-उच्चयापेक्षया विशिष्टतरः उच्चयस्समुच्चयः स एव बन्धस्समुच्चयबन्धः, साहणणाबंधेत्ति संहननं-अवयवानां सङ्घातनं तद्रुपो यो बन्धः, दीघत्वादि च प्राकृतत्वात् , कुट्टिमानांमणिभूमिकानां, 'सिलेस'त्ति श्लेषो-वज्रलेपः, लक्ख'त्ति लाक्षा, जतुरित्यर्थः,'महुसित्य'त्ति मधुसिक्थं मीनं, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः, अवगररासीण'न्ति कचवरराशीनां 'उच्चएणं'ति ऊर्ध्वचयनेन 'अगडतलाये'त्यादि प्रायः प्राग्व्याख्यातमेव, देससाहणण'त्ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः, शकटाङ्गादीनामिवेति देशसंहननसम्बन्धः, 'सव्व
॥१३९॥