SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ याए 'ति विषमा मात्रा यस्यां सा विमात्रा सा चासौ स्निग्धता चेति विमात्रस्निग्धता तया एवमन्यदपि पदद्वयं इदमुक्तं स्यात्"समनिद्धयाइ बंधो, न होइ समलुक्खयाइवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो य खंधाणं ||१||" अयमर्थः - समगुण स्निग्धस्य समगुणस्निग्धेन परमाणुकादिना बन्धो न स्यात् एवं समगुणरूक्षस्यापि यदा पुनर्विषमा - मात्रा तदा बन्धस्स्यात्, विषममात्रानिरूपणार्थमुच्यते - निद्धस्स निद्वेण दुयाहिएण, लुक्खस्स लुक्खेण दुयाहिएण । निद्धस्स लक्खेण उवेइ बंधो, जहण्णवञ्ज विसमो समोव ॥१॥"त्ति, 'असंखेज्ज' त्ति असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, 'जुण्णसुर'ति जीर्णसुरायाः स्त्यानभवनलक्षणो बन्धः, जीर्णगुडश्च, जीर्णतन्दुलानां च पिण्डीभवनरूपः ॥ प्रयोगबंध: (सू. ३४६ ) स च जीव प्रदेशानामौद। रिकादिपुद्गलानां वा 'अणाइए वा' इत्यादयो द्वितीयवर्णास्त्रयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणमाह-'अणाइए अपजव'त्ति अस्य जीवस्यासङ्गख्येयप्रदेश स्याष्टौ ये मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धः १, यदा लोकं व्याप्य तिष्ठति जीवः तदाप्यसौ तथैवेति, अन्येषां पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वात् नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना, एतेषामुपरि अन्ये चत्वारः, एत्रमेतेऽष्टौ एवं तावत्समुदा- 88. यतोऽष्टानां बन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सह यावतां मिथः संयोगो भवति तदर्शनायाह- 'तत्थवि णं'ति तत्रापि - तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां २ एकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि - प्रागुक्तविधिनाऽवस्थितानामष्टानामुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्त्तिनावेकवाधोवर्त्तीत्येते त्रयस्सम्बध्यंते, शेषास्त्वेक उपरितनस्त्रयश्चाधस्तना न सम्बध्यन्ते, व्यवहितत्वाद्, एवमधस्तनप्रतरापेक्षयाऽपीति चूर्णिकारव्याख्या, सेसाणं साइए' शेषाणां मध्यमाष्टाभ्योऽन्येषां सादिर्विपरि वर्त्तमानत्वात् एतेन नासौ प्रथमभङ्गः, अनादिसपर्यवसितस्त्वयं द्वितीयो नेह सम्भवति, अनादिसम्बद्धानामष्टानां जीवप्रदेशानाम _____ BOCJOLOGICS06100 ८ शतके ९ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy