________________
MONTHI
श्रीभग
८ शतके l८ उद्देशः
लघुवृत्ती
RAININISTRATirani
स्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिकमुहूर्तः, तत्र मूले-आसन्ने द्रष्दृस्थानापेक्षया देशे दूरे च-व्यवहिते देशे द्रष्ट्रप्रतीत्यपेक्षया रवी दृश्येते, द्रष्टा हि मध्याह्ने उदयास्तमयदर्शनापेक्षया आसन्नं रविं पश्यति, योजनशताष्टकेनैव तदा तस्य व्यवहितत्वात् , मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । 'सव्वत्थ समा उच्चत्तेगं'ति समभृतलापेक्षया सर्वत्रोच्चत्वमष्टौ योजनशतानीतिकृत्वा, 'लेसापडिघाएणं'ति तेजसः प्रतिघातेन, दूरत्वात् तादृशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरूपेण रविरासन्नप्रतीतिं जनयति, 'ले साहितावेगति तेजसोऽमितापेन, मध्याह्ने ह्यासनतरत्वात् सूर्यः प्रकर्षेण तपति, तेजःप्रतापेन दुर्दश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीतिं जनयति, 'नो तीतंति अतीतक्षेत्रस्यातिक्रान्तत्वात 'पडप्पन्नति प्रत्युपन्न-वर्तमानं, गम्यमानमित्यर्थः, 'अणागय'ति अनागतं गमिष्यमाणमिति, इह यदाकाशखण्डं रविस्वतेजसा व्यामोति तत्क्षेत्रमुच्यते, 'ओभास'त्ति अवभासयतः-ईषदुद्योतयतः 'पुटुं'ति तेजसा स्पृष्टः, 'जाव छदिसं'ति यावत्करणादिदं दृश्यम्-'तं भंते ! किं ओगाढं ओभासेइ अणोगाढं ?, गोयमा ओगाद, नो अणोगाढमिति, तं भंते ! कइदिसं ओभासेइ ?, गोयमा! इत्येतदंतमिति, उज्जोवेंति' उद्योतयतः इति अर्थ द्योतयतः 'तवंति'त्ति तापयतः, उष्णरश्मित्वात् तयोः, भासंति-भासयतः-- शोभयतः 'किरिया कजई'त्ति क्रिया-अवभासरूपा'कजइत्ति भवतीत्यर्थः,'पुट्ठ'त्ति तेजसा स्पृष्टा 'एग जोयणसयंति ऊर्ध्व स्वविमानोपरि योजनशतप्रमाणस्यैव तापक्षेत्रभावात् ,'अहे तवयंति' कथं ?, सूर्यादष्टासु योजनशतेषु समभूतलं, समभूतलाच्चाधोलोकग्रामा योजनसहस्र स्युः तांश्च यावद् द्योतनात् , तिरियं ति 'सीयालीसंति एतच्च सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षया ज्ञेयमिति, 'जहा जीवाभिगमे त्ति तच्चेदम्-कप्पोबवण्णगा विमाणोचवण्णगा चारोववण्णगा विमाणोववण्णगा चारद्विइया गइरइया
PROMINDIANIMinu
llin