________________
श्रीभग लघुवृत्ती
ODAmmamta
स्वयं विमर्शपूर्विका२०, मतिः ज्ञानं, तद्विपरीतमज्ञानं २१ दर्शनं-सम्यक्त्वं तदेव क्रियावादिप्रभृतिमतश्रवणेऽपि निश्चलचित्ततया
८ शतके धार्यमाणं दर्शनपरीषहः २२ इति । कियन्तोऽर्थतः कथिताः, 'समोयरंति' समवतरन्ति, समवतारं वजन्तीत्यर्थः, 'पंचेव'त्ति
८ उद्देशः | (*५८) क्षुत् १ पिपासा २ शीतो ३ ष्ण ४ देशमशकाः५, एतेषु पीडैव वेदनीयोत्था, तदधिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति, 'दसणपरीसहेत्ति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ स्यात् , उदये तु न स्यात्, अतस्तत्र दर्शनपरीषहः समवतरतीति, अरईत्ति गाथोक्ताः सप्तैते चारित्रमोहनीये समवतरन्ति, अलाभ'त्ति | लाभान्तरायः, तदुदय एव लाभाभावात् , तदधिसहनं चारित्रमोहनीयक्षयोपशमे । अथ बन्धस्थानान्याश्रित्य परीषहानाह-'सत्तविह'त्ति सप्तविधबन्धकः-आयुर्वर्जशेषकर्मबन्धकः, 'जं समयं चरियापरी'ति तत्र चर्या-ग्रामादिषु संचरणं नैपेधिकी-ग्रामादिषु । प्रतिपत्तिर्मासकल्पादेः स्वाध्यायादिनिमित्तं वा शय्यातो विविक्तोपाश्रये गत्वा निषदनं, छविबंध'त्ति पड्विधबन्धकस्यायुर्मोहवर्जबन्धकस्य, सूक्ष्मलोभाणूनां वेदनात् सरागः अनुत्पन्न केवलत्वात् छद्मस्थः, 'चोदसत्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावात् द्वाविंशतेः शेषाः १४ परीषहाः, 'एगविहबंध'त्ति एकविधवन्धकस्य, वेदनीयबन्धकस्येत्यर्थः, कस्य तस्येत्याह'वीयरागछउमत्थस्स'त्ति उपशान्तमोहय क्षीणमोहस्य वेति- 'एवं ति १४ प्रज्ञप्ताः, द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च क्रमशो वेदनादिति ॥ 'दूरे य मूले यत्ति (सू. ३४३) दूरे च द्रष्ट्रस्थानापेक्षया व्यवहिते देशे मुले-आसन्ने द्रष्टुः प्रतीत्यपेक्षया रवी दृश्येते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहस्रैर्व्यवहितमुद्गमास्तमययोः सूर्य पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं ॥१३७॥ विप्रकर्षे सन्तमपि न प्रतिपद्यते, 'मज्झंतिय'त्ति मध्यो-मध्यमोऽन्तो हि भागो नभसो दिनस्य वा मध्यांतः स यस मुहूर्त