________________
श्रीभग० लघुवृत्तौ
उपशान्तमोहे क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्न प्रतिपद्यमानक विवक्षा न कृता, द्वयोरप्येकत्वबहुत्वयोर्भावेन निर्विशेषत्वात् तथाहि - अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽपगतवेदत्वं प्रतिपद्मपूर्वः साम्परायिकं बध्नाति असावेकोऽनेको वा स्यात् एवं प्रतिपद्यमानकोऽपीति । अथ साम्परायिककर्मबन्धनमेव कालत्रयेणाह - 'तं भंते! कि' मिति, इह प्रागुक्तेष्वष्टसु विकल्पेषु आद्याश्चत्वार एव सम्भवन्ति, नेतरे, जीवानां साम्परायिक कर्मबन्धस्याना दिल्वेन | न बभीत्यस्यानुपपद्यमानत्वात्, तत्र प्रथमः सर्व एव संसारी यथाख्यातासम्प्राप्तः अमा) तोपशमक्षपकावसानः स हि प्राग् बद्धवान् | वर्त्तमानकाले बध्नात्यनागतकालापेक्षया तु भन्त्स्यति ?, द्वितीयस्तु मोहक्षयात् पूर्वमतीतकालापेक्षया बद्धवान् वर्त्तमानकाले तु बध्नाति भाविमोहक्षयान्न भन्त्स्यति २, तृतीयश्च उपशान्तमोहत्वात् पूर्वं बद्धवान् उपशान्तमोहत्वे न बध्नाति तस्माच्युतः पुनर्भन्त्स्यतीति ३, चतुर्थश्च मोहक्षयात् पूर्वं साम्परायिकं कर्म बद्धवान् मोहक्षये तु न बध्नाति न च भन्त्स्यतीति ४ । साम्परायिककर्मबन्धमाश्रित्याह- 'त' मित्यादि, 'साइयं सपज्जवसियं बंधइ'त्ति उपशान्तमोहाच्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सपज्जवसियं बंधइ'त्ति आदितः क्षपकापेक्षमिदं, 'अणाइयमपज्जवसियं बंधइ'त्ति एतदभव्यापेक्षं, 'नो चेव णं साइयं अपज्जवसियं बंधइ' त्ति सादिसाम्परायिकबन्धो हि मोहोपशमाच्च्युतस्यैव स्यात्, तस्यावश्यं मोक्षयायित्वात् साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति । 'परीसह 'त्ति (सू. ३४२ ) 'परी' ति समन्तात् निर्जरार्थं साध्वादिभिः सान्त इति परषहाः, 'दिगिंछा' बुभुक्षा १ अरतिः - संयमाधृतिस्तद्विपरीतेऽसंयमे रतिस्तत्परीपहः ७, चर्याग्रामानुग्राम विहरणरूपा ९ नैषेधिकी - श्मशानादिखाध्यायभूमि ः १० सत्कारो वस्त्रादिपूजनं पुरस्कार:- अभ्युत्थानादिकरणम् १९ प्रज्ञा
८ शतके ८ उद्देशः