SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ ८ शतके ८ उद्देशः इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु 'बंधी बंधइबंधिम्सई' इत्यत्र प्रथमभङ्गे उपशान्तमोहा, 'बंधी बंधइन बंधिस्सइ इति द्वितीय क्षीण- मोहः, 'बंधी न बंधइ बंधिस्सई' इति तृतीये उपशान्तमोहः,'बंधी न बंधइ न बंधिस्सई' इति तुर्ये शैलेशीगतः 'न बंधी बंधइ बंधिस्सई' इति पञ्चमे उपशान्तमोहः 'न बंधी बंधइ न बंधिस्सई' इत्यत्र षष्ठे क्षीणमोहः 'न बंधीन बंधइ बंधिस्सइ' इति सप्तमे भव्यः, 'न बंधी न बंधइ न बंधिस्सइ' इत्यष्टमेऽभव्यः, ग्रहणकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहो वा, द्वितीये तु केवली, तृतीये उपशान्तमोहः, चतुर्थे शैलेशीगतः, पञ्चमे उपशान्तमोहः क्षोणमोहो वा, षष्ठः शून्यः, सप्तमो भव्यो भाविमोहोपशमो भाविमोहक्षयो वा,अष्टमे त्वभव्य इति । अथैर्यापथिकबन्धमेव निरूपयन्नाह-तं भंते'त्ति तदैर्यापथिकं कर्म 'साइयं सपज्जवसिय'मित्यादि चतुर्भङ्गी, तत्रैर्यापथिककर्मणः प्रथम एव भङ्गे बन्धः, अन्येषु तदसम्भवादिति,'तं भंते ! किं देसे गति तदैर्यापथिक कर्म देशेन-जीवदेशेन देश-कर्मदेशं बनाति इत्यादि चतुर्भङ्गी, तत्र न देशेन कर्मणो देशः, सर्व वा कर्म सर्वात्मना वा कर्मणो देशो बध्यते. किं तर्हि १, सर्वात्मना सर्व बध्यते, तथास्वभावत्वाजीवस्थेति ॥ अथ साम्परायिकबन्धनिरूपणायाह-संपराइयं' इत्यादि, किं नेरइओ'इत्यादयस्सप्त प्रश्नाः, उत्तराणि च सप्तैव, एतेषु च मनुष्यमानुषीवर्जाः पञ्च साम्परायिकबन्धका एव सकषाय-| त्वात् , नरनायौँ तु सकाायत्वे सति साम्मरायिक बनीतो,न पुनरन्यदिति। साम्परायिकबन्ध मेव रुयाद्यपेक्षया प्राह-'तं भंतेत्ति इह ज्यादयो विवक्षितैकत्वबहुत्वा ६ भेदाः सर्वदा साम्परायिकं बनन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचित्कत्वात् , ततश्च स्यादयः केवला वनन्त्यपगतवेदयुक्ताच, ततश्च यदा अपगतवेदयुक्तास्तदोच्यन्ते, अथवैते रुयादयो बनन्ति अपगतवेदश्च, तस्यैकस्यापि सम्भवात् , अथवैते च ज्यादयो बन्नन्त्यपगतवेदाच, तेषां बहूनामपि सम्भवात् , अपगतवेदश्च साम्परायिकबन्धको वेदत्रये
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy