SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती | स्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं ३ तथा धारणा गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा दशतके या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुते इति, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणो शेषानुचितस्य प्रायश्चि- उद्देशः त्तपदानां प्रदर्शितानां धरणमिति ४, तथा जीतं-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिहानिमवेक्ष्य यत् प्रायश्चितदानं, यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारःप्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति ५ । आगमादीनां व्यापारणे उत्सर्गापवादावाह-'जहा सेति 'यथेति यथाप्रकारः केवलादीनामन्यतमः से तस्य व्यवहर्तुः स वा उक्तलक्षणो व्यवहारः 'तत्थति तत्र तेषु पञ्चमुख्यव्यवहारेषु मध्ये तस्मिन् वा-प्रायश्चित्ततदानादिव्यवहारकाले व्यवहर्त्तव्ये वस्तुनि विषये आगम:केवलादिः 'सिय'त्ति स्याद्-भवेत् 'आगमेणं'ति आगमेन, तादृशेनेति शेषः, ववहारं-प्रायश्चित्तदानादिकं व्यवहारं प्रस्थाप| येत्-प्रवर्तयेत् , न शेषैः, आगमेऽपि षड्विधे केवलेन, अवन्ध्यबोधत्वात् तस्य, तदभावे मनःपर्यायेण, एवं प्रधानतराभावे इत-| | रेणागमेनेति, 'नो य से तत्थ नि अथ नो-नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र-व्यवहर्तव्यादावागम: स्यात् तदा। प्रायश्चित्तादिकं आगमंति नाम दद्यात् इत्यर्थः 'जहा से तत्थ सुरति यथाप्रकारं 'से' तस्य 'तत्थे ति तत्र-व्यवहर्त्तव्यादौ श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेत , 'जहा जहा सेत्ति विशेषनिगमनमिति, एतैर्व्यवहर्तुः किं फलं स्यादिति प्रश्नद्वारेणाह-'से किमाहु'त्ति अथ किं हे भदन्त ! आहुः-प्रतिपादयन्ति, के आगमबलिकाः ?, श्रमणा निर्ग्रन्थाः, 'इचेयंति इतिउक्तरूपं एतं-प्रत्यक्षरूपं व्यवहारं पञ्चविधं प्रायश्चित्तदानादिरूपं 'सम्नं ववहरमाणे'त्ति सम्यक् व्यवहरन् , प्रवर्त्तयन्नित्यर्थः, ॥१३॥ कथं सम्यगित्याह-यदा यदा यस्मिन् २ अवसरे यत्र २ प्रयोजने क्षेत्रे वा यो य उचितस्तं तमिति शेषः, तदा २ काले तस्मिन् २]
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy