________________
भीभग लघुवृत्ती
८ शतके ८ उद्देश:
लक्षणस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् , पश्चाग्नितपस्वी चेहलोकप्रत्यनीकः, 'परलोकप्रत्यनीकः' परलोको-जन्मान्तरं सत्प्रत्यनीक इन्द्रियार्थतत्परो, राज्यादिलाभापेक्षयेत्यर्थः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः। 'समूहंणं'ति | समूह-साधुसमुदायं प्रतीत्य, तत्र कुलं चान्द्रादिकं, तत्समूहो गणः कोटिकादिः, तत्समूहस्संघः, प्रत्यनीकता चैतेषामवर्णवादादि| मिरिति, कुलादिलक्षणं त्विदम्-"एत्थ कुलं विण्णेयं एगायरियस्स संतई जा उ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥१॥ सव्वोऽवि नाणदंसणचरणगुणविभूसियाण समणाणं । समुदाओ पुण संघो गुणसमुदाओत्ति काऊणं ॥२॥" 'अणुकंपण्णं ति अनुकम्पा-भक्तपानादिमिरुपष्टम्भस्तां प्रतीत्य, तत्र तपस्वी-क्षपकः ग्लानो-रोगाद्यसमर्थः, शैक्षः-अभिनवदीक्षितः, एते ह्यनुपकम्प|नीयाः स्युः, तदकरणाकारणाभ्यां प्रत्यनीकता चेति, सुयगं'ति श्रुतं-मूत्रं व्याख्येयं अर्थः-तद्व्याख्यानं निर्युक्त्यादिः तदुभयं-एतद्वितयं चेति, तत्प्रत्यनीकता चैवम्-"काया वया य ते चिय ते चेत्र पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कजं?॥१॥" इति दूषणोद्भावनं, "भावणं'ति भावः-पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्चेति, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिः पुनर्ज्ञानादिरूपः असो भावं-ज्ञानादिं प्रति प्रत्यनीकः, | तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पागयसुत्तनिवद्धं, को वा जाणइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवउत्ति ॥१॥" 'ववहारे'त्ति (सू. ३३९) व्यवहरणं व्यवहारः-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, आगम'त्ति आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकनवकरूपः१ तथा श्रुतं-शेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽपि अतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयित्वादागमव्यपदेशः केवलवदिति २ आज्ञा-यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तर