________________
श्रीभग० लघुवृत्तौ
त्रिक्रियः, अक्रियस्त्वयं न स्यात्, अवीतरागत्वेन क्रियाणामवश्यंभावित्वात्, 'एवं चेव' त्ति स्यात्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु वाच्यमिति, 'मणुस्से जहा जीवेत्ति जीवपदे इव मनुष्यपदे अक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वात्, 'ओरालियस रीरे हिंतो' त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वौ दण्डकावेवमेव बहुत्वेनापरौ द्वौ एवं औदारिकशरीरापेक्षया चत्वारो दण्डका इति, 'जीवे णं'ति जीवः परकीयं वैक्रियवपुराश्रित्य कतिक्रियः १, उच्यते, स्यात् त्रिक्रियः स्यात् चतुष्क्रियः, पञ्चक्रियचेह नोच्यते, प्राणातिपातस्य वैक्रियवपुषः कर्तुमशक्यत्वात्, अविरतिमात्रस्येह विवक्षितत्वात्, अत एवोक्तं 'पंच किरिया न भण्णइ एवं जहा वेउब्वियं तहा आहारगंपि तेयगंपि कम्मगंपि भाणिपव्वं'ति अनेनाहारका दिवपुत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात् तस्य वपुत्रयस्येति, अथ नारकस्याधोलोकवर्त्तित्वाद् आहारकस्य नरक्षेत्रवर्त्तित्वेन तत्क्रियाणामविषयत्वात् कथं आहारकवपुराश्रित्य नारकः स्यात् त्रिक्रियः स्यात् चतुष्क्रिय इति, अत्रोच्यते, यावत् तत्पू'र्ववपुरण्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन निर्वर्त्तकजीवस्यैवेति व्यपदिश्यते, घृतघटन्यायेनेति, अतो नारकपूर्वभवदेहो नारकस्यैव, तद्देशेन च मनुष्यलोकवर्त्तिना अस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारक देहान्नारकस्त्रिष्क्रियश्चतुक्रियश्चेति, कायिकीभावे इतरयोरवश्यंभावात् परितापनिकीभावे चाद्यत्रयस्यावश्यं भावादिति, एवमिहान्यदपि विषममवगन्तव्यमिति, यच्च तैजसकार्मणवपुरपेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोखसेयं स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ अष्टमशते षष्ठः ॥
८ शतके ६ उद्देशः
|॥१३२॥