________________
श्रीभग
८ शतके ७ उद्देश:
लघुवृत्तौ
'हे अज्जो'त्ति (सू. ३३७) हे आर्याः! 'तिविहं तिविहे गति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनःप्रभृतिकरणेन 'एगंत'त्ति एकान्तबाला मिथ्यात्विनो भवथ 'साइज ह'त्ति अदत्तं स्वदध्वे, अनुमन्यध्वे इत्यर्थः, 'दिजमाणे अदिण्णे'त्ति दीयमानमदत्तं, दीयमानस्य वर्तमानकालत्वात् दत्त य चातीतकालत्वात् वर्तमानातीतयोश्चात्यन्तं भिन्नत्वात् दीयमानं दत्तं न स्थात् , दत्तमेव दत्तं व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया, प्रतिगृह्यमाणं ग्राहकापेक्षया, निसृज्यमाणं-क्षिप्यमाणं पात्रापेक्षया,'अंतरे ति अवसरे, अयमभिप्रायो-यदि दीयमानं पात्रेऽपतितं सद् दत्तं स्यात् तदा तस्य दत्तस्य सतः | पात्रपतनलक्षणं ग्रहणं कृतं स्यात् , यदा तु तद्दीयमानं अदत्तं तदा पात्रपतनलक्षणमदत्तस्येति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु 'अम्हाणं
अजो! दिजमाणे दिण्णे इत्यादि यदुक्तं तत्र क्रियाकालनिष्ठाकालयोरभेदादीयमानत्वादेर्दत्तत्वादि (भावात् नादत्तास्वादना) | अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वात् यूयमेवासंयतत्वादिगुणा इत्यावेदनायान्ययुथिकान् प्रति स्थविराः प्राहुः–'तुम्भे णं
अज्जो! अप्पण्णा रीयं रीयमाणे'त्ति रीत-गमनं रीयमाणा-गच्छन्तो, गमनं कुर्वाणा इत्यर्थः, 'पुढविं पेचह'त्ति पृथ्वी | आक्रमथ 'अभिहणह'त्ति पद्भयामाभिमुख्येन हत्वा 'वत्तेह'त्ति पद्धयां वर्तयथ-श्लक्ष्णतां नयथ, 'लेसेहति श्लेपयथ-भूम्यां श्लिष्टां कुरुथ'संघाएह' सङ्घातयथ-संहतां कुरुथ 'संघहत्ति संघट्टयथ-स्पृशथ 'परियावेह'त्ति परितापयथ, समन्ताजातं | | सन्तापं कुरुथ, 'किलामेह'त्ति लमयथ-मारणान्तिकसमुद्घातं गमयथ 'उबद्दवेह'त्ति उपद्रवयथ, मारयथेत्यर्थः, 'कार्य'ति | कायं-वपुः, उच्चारादिकायकार्यमित्यर्थः, जोयंति योगं ग्लानादिवैयावृत्त्यादि व्यापार वा 'रियं ऋतं सत्यं प्रतीत्य-आश्रित्येति | युज्यते, अप्कायादिजीवरक्षामाश्रित्येत्यर्थः, 'देसं देसेणं'ति प्रभूतायाः पृथ्व्या ये विवक्षिता देशास्तैर्बजामो, नाविशेषेण, ईर्या