SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती Inmaniliunlimhinthianimum a शतके उद्देशः परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥" यच्चोच्यते-'संथरणम्मि असुद्ध'ति, अशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति तद् ग्राहकस्य व्यवहारतः संयमविराधना(त् )दायकस्य च लुब्धकदृष्टान्तभावितत्त्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात् , शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं च अप्रासुकादिदानस्खाल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चितं, यत् पुनरिह || तत्त्वं तत् केवलिगम्यमिति ॥ तृतीयसूत्रे 'असंजयेत्यादिना अगुणवान् पात्रविशेष उक्तः, 'फासुएण अफासुएण'त्ति प्रासु| कापासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावश्चोक्तः, असंयमोपष्टम्भस्योभयत्र तुल्यत्वात् , यश्च प्रासुकादौ जीवघाताभावेन अप्रासुकादौ जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराऽभावस्यैव विवक्षितत्वादिति, सूत्रत्रयेणापि चानेन मोक्षार्थमेव दानं यत् तचिन्तितं, यत्पुनरनुकम्पादानं औचित्यदानं च न ते चिन्तिते, निर्जरायास्तत्रानपेक्षणीयत्वात् , अनुकम्पौचित्ययोरपेक्षणीयत्वाच्चेति, उक्तं च-"मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥१॥ति'।। दानाधिकारादेवेदमाह-'निग्गंत्थे गाहावइकुलं'ति(सू. ३३२) गृहपतिकुलं-गृहिगृहं 'पिंडवाय'त्ति पिण्डस्य | भोजनस्य पात:-पात्रे ग्रहः पात्रे गृहस्थानिपतनं तत्र प्रतिज्ञानं पिण्डपातप्रतिज्ञा तया, पिण्डस्य पातो मम पात्रे भवत्विति बुद्धिरित्यर्थः, 'उवनिमंतिज'त्ति उपनिमन्त्रयेत् , भिक्षो! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, से यत्ति स साधुस्तं पिण्डं 'थेरा य सेत्ति स्थविराश्च तस्य अनुगवेषयितव्याः स्युरिति, 'दावए'त्ति दद्याद् दापयेद्वा अदत्तादानप्रसङ्गात् , गृहिणा विवक्षितस्थविरेभ्य एव पिण्डो दत्तो, नान्यस्मै, एकान्ते-जनरहिते 'अणावाए' अनापाते जनसम्पातरहिते ॥ निग्गंथेण येत्यादि (सू.३३३) स्थविरनिर्ग्रन्थं कश्चित्पिण्डपातप्रतिज्ञया प्रविष्टमुपनिमत्रयेत् , तेन निग्रन्थेन 'अकिचठाणे त्ति अकृत्यस्थान-मूलगुणविपरीतो कार्य m muTHAMARINTINDIAN
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy