SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ क्षैः 'अणालंछिएहिं ' अवर्द्धितकैः, अखण्डैरित्यर्थः, 'अनक्क'त्ति अनक्रमिनैः - अनस्तितैः 'गोणेहिं' ति गोणैः -- वृषभैरिति 'छेत्ते हिं' ति क्षेत्रैरिति, 'एएवि ताव'त्ति एतेऽपि तावत् विशिष्टयोग्यता विकलाः एवमिच्छन्ति- अमुना प्रकारेण वाञ्छन्ति, धर्ममिति गम्यम्, 'किमंग पुण'त्ति किं पुनर्ये श्रमणोपासका इमे ? ते नेच्छन्तीति गम्यम्, इच्छन्त्येवेति, विशिष्टदेव गुरुप्रवचनसमाश्रितत्वात् तेषां 'कम्मादाणाणि कर्माणि च तानि आदानानि च कर्महेतव इति, 'केसवाणिजे 'त्ति केशवजीवानां गोमहिषी स्त्रीप्रभृतीनां विक्रयः, 'निलंछण'न्ति वर्द्धितककरणं निलन्छनकर्म्म, 'इचेए'त्ति इत्येवंप्रकाराः एते निर्ग्रन्थसत्काः 'सुक'त्ति शुक्ला :- अभिन्नवृत्ताः अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाच 'सुकाभिजाए'त्ति शुक्लाभिजाताः शुक्लप्रधानाः || (सू० ३३०) || अष्टमशते पञ्चमः ॥ 'किं कलई 'त्ति (सू० ३३१ ) किं फलं स्यादित्यर्थः, 'एगंत सो'त्ति एकान्तेन 'नत्थि य से'त्ति नास्ति चैतत् 'से' तस्य पापकर्म क्रियते - स्यात्, 'बहुतरियाए 'त्ति पापकर्मापेक्षया 'अम्पतराए'त्ति अल्पतरं निर्जरापेक्षया, अयमर्थो - गुणवत्पात्रायाप्रासुकाशनादिदाने चारित्रोपष्टम्भो जीवोपघातो वा व्यवहारतस्तचारित्रबाधा च स्यात्, ततचारित्रोपष्टम्भात् निर्जरा जीवघातादेस्तु पापकर्म, तद्वस्तु हेतुसामर्थ्यात्, पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चाल्पतरं पापं स्यात्, असंस्तरणादिकारणत एवाप्रासुकादिदानेन बह्वी निर्जरा स्यात्, नाकारणे, यदुक्तम्- "संथरणंमि असुद्धं दोहवि गिण्हंत दिंतयाणऽहियं । आउरदिट्ठेतेणं तं चैव हियं असंथरणे ॥ १ ॥" अन्ये त्वाहु:-अकारणेऽपि गुणत्रत्पात्रायाप्रासुकादिदानेन परिणामवशाद्वहुतरा निर्जरा स्यात्, अल्पतरं पापकर्मेति, निर्विशेषणत्वात् सूत्रस्य, परिणामस्य च प्रमाणत्वात्, आह च - " परमरहस्समिसीणं समत्तगणि पिडगझरियसाराणं । ८ शतके ५-६ उ० ॥१३०॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy