SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ परिग्गहाऽऽरंभ माय कि रियाओ । कमसो मिच्छाअविरयमीसपमत्तऽप्पमत्ताणं ॥ १॥ मिच्छतवसियाउ मिच्छद्दिट्ठीण ते भवे थोवा । साणं एकेको वडइ रासी तओ अहिय ॥२॥ त्ति, अन्तिमसूत्रमिदम् -'आरंभियाणं परिग्गहियाणं अप्पचक्खाण किरियाणं मायावचियाणं मिच्छादंसणवत्तियाणं कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसा हिया वा १, गोयमा ! सव्वत्थोवा मिच्छादंसणवतिया, मिध्यादृशामेव तद्भावात्, 'अपञ्च० किरिया विसेसाहिया' मिध्यादृशामविरतसम्यग्दृशां च तासां भावात्, परिगहिया विसे०, देशविरतानां प्रागुक्तानां च तासां भावात्, आरंभिया विसेसा०, प्रागुक्तानां प्रमत्तसंयतानां च तासां भावान्, मायावत्तिया विसे०, पूर्वोक्तानामप्रमत्त संयतानां च तद्भावात् एतदन्तं सूत्रं वाच्यमिति ॥ अष्टमशते चतुर्थोद्देशकः ॥ 'रायगिहे 'ति गौतमो भगवन्तमेवमवादीत् 'आजी विद्या गं' ति ( पू. ३२७) आजीविका गोशालक शिष्या भदन्त ! स्थविरान् निर्ग्रन्थान् भवतः एवं वक्ष्यमाणप्रकारमवादिषुः यच्च ते तान् प्रत्यत्रादिपुस्तगौतमः स्वयमेव पृच्छन्नाह - 'सामाइयकडस्स'त्ति कृत सामायिकस्य प्रतिपन्नाद्यशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्राद्धः सामायिकं प्रतिपद्यते, अतः 'समणोवस्सर' श्रमणोपाश्रये 'अच्छमाणस्स' आसीनस्य 'केह' कश्चित् 'भंडं'ति वस्त्रादिकं वस्तु गृहवर्त्ति साधूपाश्रयवर्त्ति वा 'अवहरेज्ज' अपहरेत् 'से णं'ति स श्रमणोपासकः 'तं भंड'ति तदपहृतं भाण्डं 'अणुगवे 'त्ति सामायिकसमाप्यनन्तरं गवेषयन् 'सभंड' ति स्वभाण्डं 'परागयं' ति परकीयं वा, पृच्छतोऽयमभिप्रायः - स्वसम्बन्धित्वात् स्वकीयं, सामायिक प्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वादखकीयं अतः प्रश्नः, अत्रोत्तरम् -'सभंड' ति स्वकीयं भाण्डं, नो परकीयं, 'तेहिं सीलति शीलव्रतानि - अणुव्रतानि गुणव्रतानि विरमणानि - रागादिविरतयः प्रत्याख्यानं - नमस्कारसहितादि पौषधोपवासाचेति शीलवतादिभिः, इह च शीलवतादीनां ग्रहणेऽपि HIGHLIGCPCJCTOLOL JUL0205 ८ शतके ४-५उ०
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy