________________
श्रीभग० लघुवृत्तौ
नपर्यवा विशेषाधिकाः केषाञ्चित् श्रुताज्ञानाविषयीकृतपर्यायाणां विषयीकरणाद्, यतो ज्ञानत्वेन स्पष्टा अवभासन्ते, तेभ्योऽपि मत्यज्ञानपर्याया अनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव मत्यज्ञानं तु तदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषाधिकाः केषाञ्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धि मत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्वाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासेनावभासनादिति || ॥ अष्टमशते द्वितीयः ॥
'संखिज्जजीविय'त्ति (सू. ३२३ ) सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयं 'जहा पण्णवणाए'ति यथा प्रज्ञापनायां तथाऽत्र वाच्यं तदेतत्-ताले तमाले तकलि तेतलि साले य सालकल्लाणे । सरले जावइ केयर, कंदलि तह चम्मरुक्खे य ॥१॥ चूयरुक्ख हिंगुरुक्खे लविंगरुक्खे य होइ बोद्धव्वे । पूयफले खज्जूरी बोद्धव्वा नालिएरी य ॥ २ ॥ 'जे यावण्णेति ये चान्ये तथाप्रकाराः वृक्षविशेषास्ते सङ्ख्यातजीविकाः, 'एगट्टिय'त्ति एकमस्थिकं – मध्ये वीजं येषां ते एकास्थिकाः, 'बहु'त्ति बहूनि बीजानि येषां ते बहुधीजकाः, निम्बाम्रजम्बुइत्याद्ये कास्थिकाः यथा प्रज्ञापनायां प्रथमपदे, 'से किं तं बहुबीयगा १, २ अणेगविहा | पं० तं०- अत्थियतिंदुकविडे अंबाडग माउलिंग बिल्ले य । आमलग फणस दाडिम आसाढे अंबर वडे य ॥ १ ॥ इत्यादि । (सू.३२४) कूर्म्मः - कच्छपः, कूम्र्म्मावलिका गोधा तदावलिका वा, 'जे अंतर'ति यान्यन्तरालानि 'तेऽवि य णं'ति तान्यपि च णं वाक्यालङ्कारे, 'तेहिं 'ति तैः जीवप्रदेशैः स्पृष्टानि - व्याप्तानि 'कलिंचे 'ति क्षुद्रकाष्ठरूपेण वा 'आमुस' न्ति आमृशन् - ईषत् स्पृशन् 'संमुसन्ति संमृशन्- सामस्त्येन स्पृशन् 'आलिह' न्ति आलिखन् - ईषत् सकृद्वा कर्षन् 'विलिह'न्ति विलिखन् विशेषेण कर्षन् 'अच्छि -
MARDANA, MOC CHIN BHOOL, WHERE DOWN CHODAN BHOGETHERHOOD 500H, MAN Health, Sali N
१००८ शत के
३ उद्देशः
॥१२७॥