SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती दशतके मक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानपर्याया इति, 'जाव'त्ति यावत्करणादिदं दृश्यं, केवइया ओहिनाणपज्जवा पण्णत्ता! गोयमा ! अणंता, केवइया भंते ! मणपजवनाणपजवा पण्णता ?, गो०! अगंता, केवइया केवलनाणपजवा पं०१, गो०! अणंता' तत्रावधिज्ञानवपर्याया येऽवधिज्ञानभेदाः, भवप्रत्ययक्षयोपशमभेदात् , नारकतिर्यामनुष्यदेवरूपतत्स्वामिभेदात् असङ्ख्यातमेदतद्विषयक्षेत्रकालभेदादनन्ततद्विषयद्रव्यपर्यायभेदादविभागपरिच्छेदाच्च, ते चैवमनन्ता इति, मनःपर्यायकेवलज्ञानस्वपर्यायाः परिच्छेदापेक्षया अविभागपलिच्छेदापेक्षया चेति एवं मत्यज्ञानादित्रयमभ्युद्यमिति, अथ पर्यवाल्पबहुत्वमाह, इह स्वपर्यायापेक्षयैवैपामल्पबहुत्वमवसेयं, स्वपरपर्यायापेक्षया सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनःपर्यायज्ञानपर्यायाः, तस्य मनोमात्रविषय| त्वात् , तेभ्योऽवधिज्ञानस्य अनन्तगुणाः,द्रव्यपर्यायतोऽनन्तगुणविषयत्वात् ,तेभ्यः श्रुतज्ञानपर्याया अनन्तगुणाः, तस्य रूप्यरूपिद्रव्यविषयत्वेनानन्तगुणविषयत्वात् , ततोऽप्याभिनिवोधिकज्ञानपर्याया अनन्तगुणाः, तस्यामिलाप्यानमिलाप्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात् , ततः केवलज्ञानपर्याया अनन्तगुणास्सर्वद्रव्यपर्यायविषयत्वात् तस्येति, अज्ञानसूत्रेऽप्यल्पबहुत्वं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे स्तोका मनःपर्यायपर्यवाः, इहोपपत्तिः प्राग्वत् , तेभ्यो विभङ्गपर्यवा अनन्तगुणाः, मनःपर्यायापेक्षया विभङ्गस्य बहुतमविषयत्वात् , तथाहि-विभङ्गज्ञानं ऊर्ध्वाधः उपरिमप्रैवेयकादारभ्य सप्तमपृथिव्यन्तक्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे यानि रूपिद्रव्याणि तानि कानिचिजानाति कांश्चित्पर्यायांश्च, तानि च मनःपर्यायापेक्षयाऽनन्तगुणानि, तेभ्योऽवधिपर्याया अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात् , तेभ्योऽपि श्रुताज्ञानपर्यवा अनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमू मूर्त्तद्रव्यासर्वपर्यायविषयत्वेनावधिज्ञानापेक्षया अनन्तगुणविषयत्वात् , तेभ्यः श्रुतज्ञा
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy