________________
श्रीभग०
८ शतके
लघुवृत्ती
२ उद्देशः
MIRAM
Rang
D
लोकालोकरूपं, एवं कालतो भावतश्चेति, आह च भाष्यकार:-'आएसुत्ति पगारो ओषादेसेण सचदव्याई । धम्मत्थिकाइयाई जाणइ न उ सबभावेणं ॥१॥ खित्तं लोगालोगं कालं सव्वद्धमहब तिविहंपि । पंचोदइयाईए भावे जा णेयमेवइयं ॥२॥' 'उवउत्ते'त्ति भावश्रुतोपयुक्तः, 'जाणइत्ति जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात् , पासइत्ति पश्यति च श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनरूपेण सर्वद्रव्याणि, अथवा पश्यत्यभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, ननु 'भावओ णं सुयनाणी उबउत्ते सव्वभावे जाणइत्ति यदुक्तमिह तत् 'सुए चरित्ते ण पज्जवा सव्वें' इत्यनेन सह कथं न विरुध्यते ?, उच्यते, इह सूत्रे सर्वकथनेन पंचौदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान् जातितो जानाति, 'रूविदवाई ति रूपिद्रव्याणि पुद्गलद्रव्याणि, तानि च जघन्यतोऽनन्तानि तैजसभाषाद्रव्याणामपान्तरालवर्तीनि, यदुक्तं-'तेयाभासादव्याण | अंतराइत्थ लहइ पट्टवओ'त्ति, उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात् तस्य, पश्यति सामान्यतः,
अवधिज्ञानिनोऽवधिदर्शनस्यावश्यंभावात् , नन्वादी दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थमेनंत्यक्त्वा प्राग्जानातीत्युक्तं, अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्यावधिविभङ्गसाधारणत्वेनाप्रधानत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्य उत्पद्यन्ते, लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिः स्यात् इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रागुक्तं, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, 'जहा नंदीए' तत्रेदं | सूत्रम्-'खेत्तओ णं ओहिनाणी जहण्णेणं अंगुलस्सासंखेजभागं० जाणइ पासईत्ति, व्याख्या पुनरेवं-क्षेत्रतोऽवधिज्ञानी जघन्येनाकुलस्यासङ्ख्येयभागमुत्कृष्टतोऽसङ्ख्येयान्यलोके शक्तिमपेक्ष्य लोकमितानि खण्डानि जानाति पश्यति, कालतो जघन्यमावलि
angalog orm WordN WIDOHNNAINADHIRHIOH