SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीभग शतके वतीसूत्रम् १ उद्देशः | निर्वातीति प्रोच्यते, स एव आयुरन्त्यसमये सर्वदुःखानामन्तं कुर्यादिति प्रश्नः, उत्तरं च कण्ठ्यं, 'नो इणढे समडे'त्ति नायमर्थः समर्थो-बलवान्. 'आउयवजाओ'त्ति यस्मादेकत्र भवग्रहणे सकृदेवान्तर्मुहूर्तमात्रकाले एवायुषो बन्धः तत उक्तमायुर्वर्जा इति, |'सिढिलबंधणबद्धाओ'त्ति श्लथवन्धनं स्पृष्टता वा बद्धता वा निधत्तता वा तेन बद्धाः-आत्मप्रदेशेषु सम्बन्धिताः पूर्वावस्थायाम(संवृतत्वाद)शुभतरपरिणामस्य च कथंचिदभावादिति शिथिलबंधनबद्धाः, एताच शुभा एव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात् , ताः किमित्याह-'धणियबंधणबद्धाओ'त्ति गाढतरबंधना बद्धावस्था वा निधत्तावस्था वा निकाचितावस्था वा प्रकरोतिकर्तुमारभते, असंवृतत्वस्याशुभयोगरूपत्वेन गाढतरप्रकृतिबंधहेतुत्वाद् , आह च-"जोगा पयडिपएसं"ति, पौनःपुन्यभावे त्वसंबू| तत्वस्य ताः करोत्येवेति, तथा 'हस्सकाल'त्ति हखकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिः-उपात्तस्य कर्मणोऽवस्थानं तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबंधहेतुत्वाद् , आह च-"ठिइमणुभागं कसायओ कुणइ"त्ति, तथा 'मंदाणुभावे त्यादि, इहानुभावो विपाको रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः-परिपेलवरसाः सतीर्गाढरसाः प्रकरोति, असंवृतत्वस्य कषायरूपत्वादेव, अनुभागबंधस्य च कपायप्रत्ययत्वादिति, 'अप्पपएसे'त्यादि, अल्पं-स्तोकं प्रदेशाग्रंकर्मदलिकपरिमाणं यासां ताः तथा ता बहुप्रदेशाग्राः प्रकरोति, प्रदेशबंधस्यापि योगप्रत्ययत्वादसंवृतस्य च योगरूपत्वादिति, 'आउयं चे'त्यादि, आयुः पुनः कर्म स्यात्-कदाचिद् बनाति स्यात्-कदाचित् न बध्नाति, यस्मात् त्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति इति, तेन यदा त्रिभागादिः तदा बध्नाति अन्यदा न बनातीति, तथा 'असायेत्यादि, असातवेदनीयं च-दुःखवेदनीयं कर्म पुनर्भूयो भूय उपचिनोति-उपचितं करोति, ननु कर्मसप्तकान्तर्वर्तित्वादसातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपच WHODAIADIATIDAINIONARIERImeanNSAHIKIMLamavimantum mere
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy