________________
श्रीभग
२ शतके
वती
१ उद्देश:
सूत्रम्
र्जीवस्थानस्य दंडकाः ३ वाच्याः, यथा औधिकदंडकस्तथैतेऽपि, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात् , तच्चैतेउलेस्सा णं भंते ! जीवा किं आया०१४, गोयमा! अत्थेगइया आयारंभावि जाव नो अणारंभा ४, अत्थेगइया नो आयारंभा जाव अणारंभा ४, से केणठेणं०?, गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहा-संजया य असंजया य'इत्यादि।। अथ भवाभावहेतुकं ज्ञानादिधर्मकदम्बमाह
इहभविएत्ति (मू०१८) इह भवे-वर्तमानजन्मनि यद्वर्तते तदेहभविकं ज्ञानं, एवं परभवेऽनंतरमनुगामितया यद्वर्तते तत्पारभविकं ज्ञानं, 'तदुभय'त्ति इह| परलक्षणयोर्भवयोर्यदनुगामितया स्यात्तत्तदुभयभविकं ज्ञानमिति प्रश्नः, 'इहभविए'त्ति उत्तरं तथैव, 'दंसणंपि एवमेव'त्ति दर्शनं-सम्यक्त्वमवसेयं, मोक्षाधिकारात , चरित्रसूत्रं व्यक्तं, तत्र विशेषः पुनरयं-चारित्रमैहभविकमेव, नहि चारित्रवानिह भूत्वा | तेनैव चारित्रेण पुनश्चारित्री स्यात, यावज्जीवावधिकत्वात्तस्य, अनुष्ठानरूपत्वाच्च चारित्रस्य शरीराभावे तदयोगात् , अत एवोच्यते'सिद्धे नो चरित्ती नो अचरित्ती' नो अचरित्तीति अविरतेरभावादिति, एवं तपस्संयमावपि वाच्यौ, चारित्ररूपत्वात्तयोरिति ।
असंवुडे णं (सू० १९) असंवृतोऽनगारः-अविद्यमानगृहः, साधुरित्यर्थः, सिज्झइत्ति सिध्यति सिद्धियोग्यः स्यात् 'बुज्झइ'त्ति उत्पन्न केवलज्ञानतया | सर्वजीवादिपदार्थान् जानाति, त(य)दार्थान् जानाति तदा बुध्यते इत्युच्यते, मुच्चइ'त्ति स एव केवली कर्मभिः प्रतिसमयं विमुच्यमानो मुच्यते इति भण्यते, 'परिनिब्वाइ'त्ति स एव यथा यथा समयं समयं कर्मक्षयमामुयात् तथा तथा शीतीभवन् परि
HICHIHINDDHAIHODAIHINODHIANDITATHIHDHINIHOWINSAHIDIHATIANIHANIMWHimali
॥११॥