________________
श्रीभग वतीसूत्रम्
तो
मत(ता)मेदमाह, प्रमत्तसंयतस्य हि शुभोऽशुभश्च योगः स्यात् , संयतत्वात् प्रमादपरत्वाच, तत आह-सुहंजोगं पडुच्च'त्ति शुभंयोगं-उपयुक्ततया प्रत्युपेक्षणादिक्रियाकरणं, अशुभयोगं तु तदेवानुपयुक्ततया, आह च-"पुढवीआउक्काए तेऊवाऊवणस्सइतसाणं । |पडिलेहणापमत्तो छहंपि विराहओ होइ ॥१॥" "सव्वे पमत्तजोगा समणस्स उ होइ आरंभो " अतः शुभाशुभयोगौ आत्मारंभादिकारणं, 'अविरई पडुच्च'त्ति, इहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनामात्मारंभादित्वं साक्षान्नास्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणं, निवृत्तानां च कथंचिदात्मारंभाधारंभकत्वे[ना| प्यनारंभकत्वं, यदाह-"जा जयमाणस्स भवे०"त्ति, 'से तेण?णं' अथ तेन कारणेनेति । अथात्मारंभकादित्वं नारकादिचतु| विंशतिदंडकेषु भावयन्नाह-'नेरइयाण'ति व्यक्तं, नवरं मनुष्येषु संयतासंयतप्रमत्ताप्रमत्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जी| वास्तथाऽध्येतव्याः, किन्तु संसारसमापन्ना इतरे च ते न वाच्याः, भववर्तित्वात्तेषामिति,व्यन्तरादयो यथा नारकास्तथाऽध्येतव्याः, | असंयतत्वसाधादिति । अथ सलेश्यांस्तान् तैरात्मारंभादिदंडकैरेव निरूपयन्नाह, तत्र 'सलेस्स'त्ति लेश्यावन्तो जीवाः 'जहा
ओहिय'त्ति यथा ओधिका:-सामान्या जीवा नारकाद्यभिधानविशेषरहिता (स्तथा) वाच्याः, तच्चेदं-सलेसाणं भंते ! जीवा किमाया रंभा०, इति एको दंडकः सामान्यः प्रथमः, कृष्णादिलेश्याभेदादन्ये पद्, एवं सर्वे सप्त, नवरं कृष्णादिलेश्यात्रये प्रमत्ताप्रमत्तवि
शेषणे न वाच्ये, यतः कृष्णादिलेश्यासु अप्रशस्तभावरूपासु संयतत्वं नास्ति, यच्चोच्यते-'पुब्बपडिवन्नओ पुण अण्णयरीए उलेसाए'त्ति | तद् द्रव्यलेश्यामाश्रित्येति ज्ञेयं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रं चेदं-'कण्हलेसा णं भंते ! जीवा किं आयारंभा ४ ?, गोयमा ! आयारंभा जाव नो अणारंभा, से केण०, गोयमा ! अविरई पडुच्च'त्ति, एवं नीलकापोतलेश्यादंडको वाच्यौ, तथा तेजोलेश्यादे३