________________
श्रीभगवतीसूत्रम्
घ्राणेन्द्रियं चतुरिन्द्रियाणां चक्षुरधिकं एतन्नानात्वं ज्ञेयं, पञ्चेन्द्रियतिरश्चां स्थितिं जघन्यतोऽर्तर्मुहूर्ता उत्कृष्टतस्त्रिपल्योपमां च भणित्वा उच्छासो विमात्रया वाच्यः, 'छड भत्तस्स' त्ति तदेव कुरूत्तरकुरुतियक्षु लभ्यते, मनुष्यसूत्रे 'अहमभत्तस्स' त्ति देवकुर्वादिमिथुनंकनरानाश्रित्य ज्ञेयमिति, 'वाणमंतराणं' ति व्यन्तराणां स्थितौ नानात्वं स्थितेरवशेषं प्रागुक्तमाहारादि वस्तु यथा नागकुमाराणां, व्यन्त| राणां नागकुमाराणां च प्रायः साधर्म्यात्, तत्र व्यन्तरस्थितिर्जघन्येन दश वर्षसहस्राणि उत्कर्षेण तु पल्योपममिति, 'जोइसियाणं' ति तत्र ज्योतिष्क स्थितिर्जघन्येन पल्योपमाष्टभागः, उत्कर्षेण वर्षलक्षाधिकं पल्योपमं, 'उस्सासो'त्ति उच्छ्रासश्च तेषां 'जहणणेणं' ति पृथक्त्वं द्विप्रभृतिरानवभ्यः, तत्र यत् जघन्यं मुहूर्त पृथक्त्वं तद्वित्रा मुहूर्ताः, उत्कृष्टं तदष्टौ नव च, आहारस्तथैव ज्ञेयः, 'वेमाणि' त्ति वैमा निकानां 'ओहिय'त्ति औधिकी सामान्या, सा च पल्योपमादिका त्रयस्त्रिंशत्सागरोपमान्ता, जघन्यमुच्छ्रासप्रमाणं जघन्यस्थितिकदेवान् इतरत्तूत्कृष्टस्थितिकदेवांश्चाश्रित्य ज्ञेयं, अत्र गाथा 'जस्स जई सागराई तस्स ठिई तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्से हिं आहारो ॥ १ ॥ ग्रन्थेनैवं चतुर्विंशतिर्दंडा उक्ताः, एवमुक्ता नारकादिकर्मवक्तव्यता, सा आरंभपूर्विका इत्यारंभनिरूपणायाहजीवाणं भंते किमायारंभत्ति (१७.) आरंभो-जीवोपघातः, तत्र आत्मानं आत्मना वा स्वयमारभन्ते इत्यात्मारंभाः परमारभन्ते परेण वाऽऽरं भयन्तीति परारंभाः तदुभयं - आत्मपररूपं तदुभयेन वाऽऽरभन्ते इति तदुभयारंभाः, आत्मपरोभयारंभवर्जितास्त्वनारंभाः इति प्रश्नाः ४, नवरं अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वादस्ति - विद्यन्ते सन्तीत्यर्थः, 'एगइय'त्ति एककाः- एके केचन जीवाः कदाचिदात्मारंभाः कदाचित् परारंभाः कदाचिदुभयारंभाः, एते एव नोडनारंभाः, भिन्नार्थत्वं त्वेवम्-एके जीवा असंयताः आत्मारंभाः परारंभा वा इति, 'से केणट्टेणं' ति अथ केन कारणेन ?, 'दुविहा पण्णत्त' त्ति मयाऽन्यैश्च केवलिभिः, अनेन सर्वसर्वविदां
१ शतके
१ उद्देशः
॥१०॥