________________
श्रीभगवती
सूत्रम्
मलोकावृतत्वात् तदन्यासु तिसृषु दिक्षु पुद्गलग्रहणं स्यात्, एवमुपरितनकोणेऽपि पुद्गलग्रहणं वाच्यं, यदाऽध उपरि वाऽलोको न स्यात्तदा चतसृषु यदा पूर्वादीनां षण्णां दिशामन्यतरस्यामलोकः स्यात् तदा पञ्चखपि, 'सेसं'ति शेषं भणितावशेषं तथैव यथा नारकाणां तथा | पृथिवीकायिकादीनामपि तच्चेदं - 'जाई भंते! लुक्खाई आहारेंति ताई किं पुठ्ठाई अपुट्ठाई ओगाढाई अणोगाढाई' इत्यादि, 'नाणत्तं' ति नानात्वं-भेदः पृथिव्यादीनां नारकापेक्षयाऽऽहारं प्रतीदं- कतिभागमाहारेंति इति, एवं फासाइंति आहारपुद्गलान् स्पर्शयन्ति, स्पर्शनेन्द्रियेण आहारपुद्गलानां कतिभागं स्पृशन्तीत्यर्थः, 'सेसं जह' त्ति, तचैवं- 'पुढविकाइयाणं भंते! पुव्वाहारिया पोग्गला परिणया' इत्यादि प्राग्वद्वयाख्येयं, पृथ्वीवदप्तेजोवायूनां स्वरूपं ज्ञेयं, नवरं 'ठिई 'त्ति (१६ सू.) 'जा जस्स' ति जघन्यमन्तर्मुहूर्त सर्वेषां उत्कृष्टं तु त्रयाणां अपां सप्त वर्ष सहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि जाव वणस्सइति वनस्पतीनां दश, इत्युक्ता पृथिव्यादिपञ्चकस्थितिः 'बेंदियाणं' ति द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाहारसूत्रं चैवं 'तत्थ गं' ति तस्यायमर्थः असंख्यात सामयिक आहारकालः स्यात् स चावसर्पिण्यादिरूपोऽप्यस्ति अत उच्यते - आन्तमौहूर्तिकः, तत्रापि विमात्रया अंतर्मुहूर्तसमयासंख्यातत्वस्यासंख्येयभेदत्वादिति 'वेंदियाणं दुविहे' त्ति लोमाहार ओघतो वर्षादिषु यः पुद्गलप्रवेशः, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहवः अस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते, स्थौल्यसौक्ष्माभ्यां, अत एव आह-- जे पोरंगले पक्खेवाहारत्ति, 'असंखिज्जभागं 'ति, असंख्यातभागं 'अणेगाई' ति असंख्येयभागाः अणासाइंति रसनेन्द्रियतः अफासाइंति स्पर्शनेन्द्रियतः सव्वत्थोवत्ति सर्वस्तोकाः, अनाखाद्यमानानां अस्पृश्यमानानां चानंतभागवर्तिनो रसनेन्द्रियविषया इति, ये त्वस्पृश्यमानास्तेऽनन्तगुणाः रसनेन्द्रियविषयेभ्यः सकाशात्, 'तेंदिय'त्ति त्रिचतुरिन्द्रिययोः स्थितिः एकोनपञ्चाशद् दिनांनि षण्मासाच, तथाऽऽहारेऽपि नानात्वं अणाघाईति अनाघ्रायमाणानि अत्रैतदतिरिक्तं
CLOCOCOCCCCCCCCCC
शतके
उद्देशः