________________
श्रीभगवती
सूत्रम्
सासे एस पाणुति बुच्च ॥ १ ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सतहत्तरिए, एस मुहुत्ते वियाहिए ॥२॥" इदं जघन्यमुच्छ्वासादिमानं जघन्यस्थितिकानां, उत्कृष्टं चोत्कृष्ट स्थितिकानां, 'चउत्थभत्तस्स' त्ति चतुर्थभक्तमित्ये कोपवासस्य संज्ञा, एकत्र दिने भुक्त्वाऽहोरात्रमतिक्रम्य तृतीये भुङ्क्ते इति भावः, नागकुमारवक्तव्यतायां 'उकोसेणं दो देभ्रूणाई पलिओवमाई' ति यदुक्तं तदुत्त रश्रेणिमाश्रित्य यतः- “ दाहिण दिवड पलियं दो देभ्रूणुत्तरिल्लाण" मिति, मुहुत्त पुहुत्तस्स' त्ति मुहूर्त:-उक्तलक्षण एव, पृथक्त्वं द्विप्रभृतिरानवभ्यः संख्याविशेषः, एवं 'सुवण्णकुमाराणवित्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यं, जाव थणियकुमाराणंति यावत् स्तनितकुमाराणां । अथ पृथिव्यादिस्थित्यादीन्याह- 'पुढवी 'त्यादि व्यक्तमावनस्पति सूत्रात्, नवरं 'अंतोमुहुचं' ति मुहूर्तस्यान्तरन्तमुहूर्त, भिन्नमुहूर्तमित्यर्थः 'उकोसेणं बावीसं वाससहस्साई' ति तत् खरपृथिवीमाश्रित्योक्तं, यदाह- " सण्हा य १ सुद्ध २ वालु०" "बेमायाए 'त्ति विषमा विविधा वा मात्रा - कालविभागो विमात्रा तया, इदमुक्तं स्यात्-विषमकाला पृथिवीकायिकानामुच्छ्रासादिक्रिया, इयत्कालादिति या न निरूपयितुं शक्या, 'जहा नेरइयाण' मित्यतिदेशात् 'खेत्तओ असंखेज्जपएसोगाढाई कालओ अण्णयरठिझ्याई' इत्यादि दृश्यं, 'निव्वाघाए' त्ति व्याघातः आहारस्य लोकान्तर्निष्कुटेषु कोणेषु स्यात्, नान्यत्र, पट्सु दिक्षु, कथं ?, चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तत्स्थापना चैवं 'वाघायं' व्याघातं 'पहुच 'त्ति प्रतीत्य, व्याघातो लोकान्तकोणेषु स्यात् तत्र च 'सिय तिदिसिं 'ति स्यात् - कदाचित् तिसृषु दिक्षु आहारग्रहणं स्यात्, कथं ?, यदा पृथ्वीका - यिकोऽधस्तने उपरितने वा कोणे स्थितः स्यात् तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चालोकः, एवं तिसृणा
उ.
पू.
उर्ध्व
अध
प.
द.
१ शतके १ उद्देशः
11311