________________
श्रीभगवती
सूत्रम्
'तेया मत्ताए 'ति तेजः शरीरकार्मणशरीरतया तद्रूपतया वा 'तीतकालसमए'त्ति कालः - समयः अतीतकालस्योत्सर्पिण्यादेः | परमनिकृष्टोऽशोऽतीतकालसमय: 'पप्पण्ण' त्ति प्रत्युत्पन्नो - वर्तमानः एवं त्रिकालस्वरूपं वाच्यं, उत्तरमध्येयं, अतीतानागतयो - र्विनष्टानुत्पन्नत्वेन असत्वात् तद्विषयग्रहणप्रतिषेधः, प्रत्युत्पन्नत्वेऽप्यभिमुखान् गृह्णाति, नान्यान्, 'गहणसमयपुरक्खडे' त्ति ग्रहण समयः पुरस्कृतो - वर्तमानसमयस्य पुरोवत्र्त्ती येषां ते ग्रहण समयपुरस्कृताः ग्रहीष्यमाणा इतियावत्, ऊदीरणा च पूर्वगृहीतानामेवातोऽतीतकालसमय गृहीतानुदीरयन्ति, वर्तमानगृह्यमाणानां ग्रहीष्यमाणानां वा निषेधः, तत उक्तं- 'नो पडुप्पण्णेत्यादिपदद्वयं वेदनानिर्जससूत्रयोरप्येषैवोपपत्तिरिति । अथ कर्माधिकारादेवेयमष्टसूत्री
...नेरइयाणं भंते ! जीवाओ किं चलियंति (सू० १५)
जीवप्रदेशेभ्यश्चलितं - अनवस्थानशीलं तदितरच्चचलितं तदेव बनाति, एवमुदीरणावेदनापवर्तनासंक्रमनिधत्तनिकाचनानि भाव्यानि, निर्जरा च पुद्गलानां निरनुभावीकृतानामात्मप्रदेशेभ्यः शातनं, सा नियमाच्चलितस्य कर्मणो, नाचलितंस्य, इह सङ्ग्रहणीगाथा गतार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदंडकक्रमागताम सुरकुमारवक्तव्यतामाह- असुरकु मारवक्तव्यता नारकवक्तव्यतावन्नेया, यतः 'ठिईऊसासाहारे' त्यादिगाथेोक्तानि ४० सूत्राणि 'परिणयचिए' इति गाथोक्तानि ६ 'भेइयचिए' इति गाथोक्तानि १८ 'बंधोदये' इति गाथोक्तानि ८, तदेवं च द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि, नवरं - विशेषोऽयं उक्कोसेणं साइरेगं सागरोवमंति इत्युक्तं बलीन्द्रमाश्रित्य यतः - " चमर बलि सारमहियं" ति, 'सत्तण्हं थोवाणं' ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चेदं - "हस्स अणवगल्लस्स निरुव किडस्स जंतुणो । एगे ऊसासनी
१ शतंके १ उद्देशः