SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीभग बती १ शतके १ उद्देश: सूत्रम् | यकर्मद्रव्यराशिर्वर्गणा, तामधिकृत्य आश्रित्य, कर्मद्रव्यवर्गणासत्का इत्यर्थः, 'अणू चेव'त्ति सूक्ष्माश्च बादराश्चेति, यत औदारिकादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणि, एवं चयादयः शब्दार्थभेदेन वाच्याः, किंतु चयोपचयसूत्रयोः 'आहारदव्य'त्ति आहारद्रव्यवर्गणामधिकृत्योक्तं तत्रायमभिप्रायः-वपुराश्रित्य चयापचयौ प्रागुक्तौ आहारद्रव्येभ्य एव स्याता, नान्यतः, अत आहारद्रव्यवर्गणामाश्रित्योक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव स्युः अतः तत्सूत्रेषूक्तम्-कर्मद्रव्यवर्गणामधिकृत्येति, 'उयहिंसुत्ति ३ अपवर्तितवन्तः, इहापवर्तनं कर्मस्थित्यादेरध्यवसायविशेषेण हीनताऽऽपादनम् , एतदुपलक्षणत्वादुद्वर्तनमपि दृश्य, तच्च स्थित्यादेवृद्धिकरणं, 'संकामिंसुत्ति ३ संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह-"मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसायप्रयोगेण ॥१॥" अन्यस्त्वेवमाह"मोत्तूण आउयं खलु देसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भणिओ ॥१॥ एतदेव निदर्श्यते-यथा कस्यचित् सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा संजाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवं वर्तमानानागतयोरपि वाच्यं, 'निहत्तिंसुत्ति३ निघत्तान् कृतवन्तः, इह विश्लिष्टानां मध्ये मिथःपुद्गलानां निचयं कृत्वा धारणं रूढिशब्देन निधत्तमुच्यते, उद्वर्तनापवर्तनव्यतिरिक्तकरणानामविषयेण कर्मणोऽवस्थानमिति, 'निकाइंसुत्ति ३ निकाचितवंतो-नितरां बद्धवन्तः, निकाचनं चैषामेव पुद्गलानां मिथोविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिताग्निप्रतप्तप्रतिहन्यमानसूचीकलापस्येव सकलकरणानामविषयत्वेन कर्मणां व्यवस्थापन, भेइयेतिपदसंग्रहगाथा गतार्था । अथ पुद्गलाधिकारादिदं सूत्रचतुष्कमाहनेरइयाणमिति व्यक्तं (सू०१४) HAMARIANDEmentumentatuter Transferrelimiliano mm ॥८॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy