SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती तुष्कवन्तो भजनया, तथैव द्वयज्ञानिनो वा व्यज्ञानिनो वा, स्पर्शनेन्द्रियालब्धिकास्तु केवलिन एव, इन्द्रियलब्ध्यलब्धिमन्तोऽ ult शतके प्येवंविधा एव 'जहा इंदिय'त्ति यथा इन्द्रियलब्धिका अलब्धिका वा, उपयोगद्वारे 'सागारोवउत्त'त्ति(सू. ३२०)आकारो-10 २ उद्देश: | विशेषस्तेन यो बोधस्स साकारो-विशेषग्राहको बोधस्तेनोपयुक्ताः-तत्संवेदका ये ते साकारोपयुक्ताः ज्ञानिनोऽज्ञानिनश्च, तत्र | ज्ञानिनां पञ्च ज्ञानानि भजनया, स्यात् द्वे स्यात्रीणि स्याच्चत्वारि स्यादेकं, यच्च स्याद् द्वे इत्युच्यते तल्लब्धिमात्रमङ्गीकृत्य, उपयोगा|पेक्षया एकदा एकमेव ज्ञानमज्ञानं च, अज्ञानिनां तु त्रीण्यज्ञानानि भजनया, 'आभिणिति 'ओहिनाणे'त्ति अवधिज्ञानसाकारोपयुक्ताः, यथा तल्लब्धिकाः प्रागुक्ताः, स्यात् त्रिज्ञानिनो मतिश्रुतावधियोगात्, स्याच्चतु निनो मतिश्रुतावधिमनःपर्यवामि| सम्बन्धात् तथा वाच्याः,'मणपजव'त्ति मनःपर्यवज्ञानसाकारोपयुक्ता यथा मनःपर्यवलब्धिकाः प्रागुक्ताः, स्यात्रिज्ञानिनो मतिश्रुतमनःपर्यवयोगात् , स्याच्चतु निनः केवलवर्जज्ञानयोगात् , 'अणागारोवउत्त'त्ति न विद्यते आकारो यत्र तदनाकार-दर्शनं | तत्रोपयुक्ता ये ते ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानलब्ध्यपेक्षया पश्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनया, एवं'ति यथा अनाकारोपयुक्ता ज्ञानिनोऽज्ञानिनश्चोक्ता एवं चक्षुर्दर्शनाद्युपयुक्ता अपि, 'नवरं'ति विशेषः पुनरयं-चक्षुर्दर्शनेतरोपयुक्ताः केवलिनो न स्युः, तेषां चत्वारि ज्ञानानि भजनयेति, 'ओहिदसणअणागारो'त्ति अज्ञाना(अनाकारा)धिकारेऽवधिविभङ्गसाधारणत्वं, यतः--"सागारा, ओहिविभंगा जहण्णगा तुल्ला" इत्युक्तेः अवधिदर्शनयुक्ता अज्ञानिन उच्यन्ते । योगद्वारे 'सजोगिणं'ति, 'जहा सकाइय'त्ति प्रागुक्तकायद्वारे यथा सकायिका भजनया पश्चज्ञानास्यज्ञानाश्च उक्तास्तथा सयोगा अपि वाच्याः, एवं मनो- H ॥१२३॥ | योग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात् तथा मनोयोगित्वादिमतां मिथ्यादृशामज्ञानत्रयभावाच्च, 'अजोगीति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy