________________
श्रीभग०
ll शतके र उद्देशः
लघुवृत्ती
ज्ञानत्रयं अज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव स्यात् , सिद्धानां तु केवलज्ञानमेव, 'मणपज्जवत्ति मन:पर्यायज्ञानं तु पण्डितवीर्यवतामेव स्यात् , नान्येषां, अत उक्तम्-मनःपर्यायवर्जानि, सिद्धानां च वीर्यालब्धिकत्वं पण्डितवीर्यवाच्यप्रत्युपेक्षणादिअनुष्ठाने प्रवृत्यभावात् , 'बालपंडिए'त्ति 'तस्स अलद्रि'त्ति अश्रावकाणामिति, 'इंदियलद्धि'त्ति इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां, केवलिनामिन्द्रियोपयोगाभावात् , ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, इन्द्रियालब्धिकाः केवलिन एव, तेषामेवेन्द्रियोपयोगाभावात , तस्सद्धि'त्ति श्रोत्रन्द्रियलब्धिका इन्द्रियलब्धिकवद्वाच्याः, ते च ये ज्ञानिनस्ते अकेवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया, अज्ञानिनस्तु भजनया द्वित्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिका ये ज्ञानिनस्ते आद्यद्विज्ञानिनः, ते चापर्याप्तकाः सास्वादनसम्यग्दर्शनिनो विकलेन्द्रियाः, एकज्ञानिनः केवलज्ञानिनः, ते हि श्रोत्रे न्द्रियालब्धिका इन्द्रियोपयोगाभावात् , ये त्वज्ञानिनस्ते चाद्याज्ञानद्वयवन्तः, चक्खिदिय'त्ति अयमर्थः-यथा श्रोत्रेन्द्रियलब्धिमतां भजनया चत्वारि ज्ञानानि त्रीणि वा तदलब्धिकानां द्वे ज्ञाने अज्ञाने वा एकं च ज्ञानमुक्तं एवं चक्षुणिलब्धिकानां तदल| ब्धिकानां च वाच्यं, तत्र चक्षुर्घाणलब्धिकाश्च ये पश्चेन्द्रियास्तेषां केवलवर्जानि चत्वारि ज्ञानानि त्रीणि वा भजनया, ये तु विकलेन्द्रियाश्चक्षुर्घाणलब्धिकास्तेषां सास्वादनसम्यग्दर्शनभाने आद्यज्ञानद्वयं, तदभावे त्वाद्यमज्ञानद्वयं, चक्षुर्घाणेन्द्रियालब्धिका यथायोगं त्रिद्वथेकेन्द्रियाः केवलिनश्च, तत्र त्रीन्द्रियादीनां सास्वादनसद्भावे आये ज्ञाने, तदभावे आये अज्ञाने, केवलिनामेकं केवलज्ञानं, जिभिदिय'त्ति, तस्स अलद्धिया' जिह्वालब्धिवर्जितास्ते केवलिन एकेन्द्रियाश्च, ये अज्ञानिनस्ते नियमात् यज्ञानिनः,एकेन्द्रियाणां सास्वादनभावतोऽपि सम्यग्दर्शनासद्भावाद्विभङ्गाभावाचेति, 'फासिंदिय'त्ति स्पर्शनेन्द्रियलब्धिकाः केवलवर्जज्ञानच