________________
MBR
श्रीभगत्रीण्यज्ञानानि भजनया, सामाइय'त्ति सामायिकचारित्रलब्धिका ज्ञानिन एव, तेषां च केवलवर्जानि चत्वारि ज्ञानानि भजनया, लघुवृत्तौ सामायिकचारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, छेदोपस्थापनीयादिभावेन सिद्धत्वेन वा, ये त्वज्ञानिनस्तेषां
|त्रीण्यज्ञानानि भजनया, एवं छेदोपस्थापनीयादिष्वपि वाच्यं, एतदेवाह-'एवं'ति तत्र छेदोपस्थापनीयादिचारित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि चत्वारि ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह-'नवरमहक्खाय'त्ति सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया स्युरिति तेषां तथैव तान्युक्तानि, 'चरित्ताचरित्त'त्ति 'तस्स अलद्धि'त्ति |चारित्राचरित्रालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, 'दाणलद्धि'त्ति दानान्तरायक्षयक्षयोपशमाद् दाने दातव्ये लब्धियेषां ते दानलब्धिकाः, ते ज्ञानिनोऽज्ञानिनश्च, तत्र ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलिनामपि दानलब्धियुक्तत्वात् , ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, दानालब्धिकास्सिद्धास्ते दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासचात् दानप्रयोजनाभावाच्च दानालब्धय उक्ताः, ते च नियमात् केवलज्ञानिन इति, 'एवं'ति लाभभोगोपभोगवीर्यलब्धय एवं ज्ञेयाः, तदलब्धयः सिद्धानामेवोक्तन्यायादव सेयाः, ननु दानाद्यन्तरायक्षयात् केवलिनां | दानादयः कस्मान्न स्युः १, उच्यते, प्रयोजनाभावात् , कृतकृत्यास्ते भगवन्तः, 'बालबीरिय'त्ति बालवीर्यलब्धयोऽसंयताः तेषां| | ज्ञानिनां त्रीणि ज्ञानानि, अज्ञानिनां च त्रीण्यज्ञानानि भजनया, तदलब्धिकास्तु संयतासंयताः संयताश्च ते च ज्ञानिन एव, तेषां पञ्च | ज्ञानानि भजनया, 'पंडियवीरिय'त्ति 'तस्त अलद्धिति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामायं
WOROSHD
॥१२२॥