SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती | मनःपर्यायज्ञानानि वा केवलज्ञानवानि चत्वारि वा ज्ञानानि स्युः, ये त्वज्ञानिनस्तेषामाद्यमज्ञानद्वयं तत्रयं वा स्याद , एवं भजना शतके अवसेयेति । 'अन्नाणलद्धियाणं'ति अज्ञानलब्धिका अज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीण्यज्ञानानि वा, अज्ञा UR उद्देशः नालब्धिकास्तु ज्ञानिनः, तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, 'जहा अन्नाणे' त्यादि, यथा अज्ञानलब्धिकानां त्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथा अज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानि, विभङ्गज्ञानलब्धिकानां त्रीण्यज्ञानानि नियमात् , तदलब्धिकानां पश्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति। 'दसणलद्धि'त्ति दर्शनलब्धिकाः, श्रद्धानमात्रलब्धिका इत्यर्थः, ते च सम्यश्रद्धानवन्तो ज्ञानिनस्तदितरे त्वज्ञानिनः, तत्र ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैवेति, तस्स अलद्धिया नत्थि'त्ति तस्य-दर्शनस्य येषामलब्धिस्ते न संत्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति, सम्म| इंसणलद्धित्ति सम्यग्दर्शनलब्धिकानां 'तस्स अलद्धि'त्ति तस्यालब्धिकानां सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनां मिश्र दृष्टीनां च त्रीण्यज्ञानानि भजनया, यतो मिश्रदृष्टीनामप्यज्ञानमेव, तात्विकसदोधाहेतुत्वान्मिश्रस्येति, 'मिच्छादसणलद्धि'त्ति | मिथ्यादृशां,'तस्स अलद्धि'त्ति तस्यालब्धिकानां मिथ्यादर्शनालब्धिमतां सम्यग्दृशां मिश्रदृष्टीनां चक्रमात् पञ्च ज्ञानानि त्रीण्य| ज्ञानानि च भजनयेति, 'चरित्तलद्धि'त्ति चरित्रलब्धिका ज्ञानिन एव, तेषां पश्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री, चरित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनया स्युः, कथं ?, असंयतत्वे आद्यं ज्ञानद्वयं तत्रयं वा, सिद्धत्वे च केवलज्ञानं, सिद्धानामपि चारित्रलब्धिशून्यत्वाद् , यतस्ते 'नो चारित्रिणो नो अचारित्रिण' इति, ये त्वज्ञानिनस्तेषां
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy