________________
श्रीभग० लघुवृत्तौ
D
णीतः प्रच्यवमानस्येति, 'अहक्खायचरित' न्ति यथा-येन प्रकारेणाख्यातं - अभिहितं अकषायतयेति तथैव यत् तत् यथाख्यातं, तदपि द्विधा-उपशमक्षपकश्रेणिभेदात्, शेषं तथैव, 'चरित्ताचरिते' त्ति 'एगागारा' मूलोत्तरगुणादीनां तद्भेदानामविवक्षणाद् द्वितीयकषायक्षयोपशमलभ्यपरिणाममात्र सैव विवक्षणाच्चरित्राचरित्रलब्धेरेकाकारत्वमव सेयं, एवं दानादिलब्धीनामेकाकारत्वं भेदानामविवक्षणात्, 'बालवी रियत्ति वालस्य असंयतस्य यद्वीर्यमसंयमयोग प्रवृत्तिहेतुभूतं तस्य या लब्धिश्चारित्र मोहोदयाद्वीर्यान्तरायक्षयोपशमाच्च सा तथा, एवमन्ये अपि यथायोगं वाच्ये, नवरं पण्डितः - संयतः बालपण्डितः - संयतासंयतः श्राद्धः । ' तस्स अलद्धियाणं'ति तस्य ज्ञानस्य अलब्धिकाः, ज्ञानलब्धिरहिता इत्यर्थः, 'आभिणिबोहियनागे' त्यादि, आभिनिबोधिकज्ञान| लब्धिकानां चत्वारि ज्ञानानि भजनया, केवलिनो नास्ति आभिनित्रोधिकज्ञानमिति । मतिज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते केवलिनस्ते चैकज्ञानिन एव, ये त्वज्ञानिनस्ते अज्ञानद्वयवन्तः अज्ञानत्रयवन्तो वा, एवं श्रुतेऽपि, 'ओहिणाणलद्धि'त्ति अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायाभावे, चतुर्ज्ञाना वा केवलाभावात्, अवधिज्ञानस्यालब्धिका ये ज्ञानिनस्ते द्विज्ञानिनो मतिश्रुतभावात् त्रिज्ञाना वा मतिश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात् ये त्वज्ञानिनस्ते द्वयज्ञाना वा मत्यज्ञानश्रुताज्ञानभावात् व्यज्ञाना वा विभङ्गभावात्, 'मणपज्जव'त्ति मनः पर्यवज्ञानलब्धिकास्त्रिज्ञानाः, अवधि केवलाभावात्, चतुर्ज्ञाना वा, केवलाभावात्, मनःपर्यवज्ञानालब्धिकास्त्रिज्ञाना अवधि केवलाभावात्, अलब्धिकास्तु ये ज्ञानिनस्ते द्विज्ञानाः, आद्यद्वयभावात्, त्रिज्ञाना वा आद्यत्रयभावात्, एकज्ञाना वा केवलभावात्, ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात् त्र्यज्ञाना वा अज्ञानत्रयभावात्, 'केवलनाण' त्ति केवलज्ञानलब्धिकाः केवलज्ञानिन एव, केवलज्ञानालब्धिकास्तु ये ज्ञानिनस्तेषामाद्यं ज्ञानद्वयं, त्रतयं मतिश्रुत
८ शतके २ उद्देशः
॥१२१॥