________________
श्रीभग० लघुवृत्तौ
प्रतिज्ञालोपः १, अत्रोच्यते, अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषादिति, 'छेओवद्वाव'त्ति छेदे - प्राक्तन संयमव्यवच्छेदे सति यदुपस्थापनीयं - साधावारोपणीयं तत् छेदोपस्थापनीयं - पूर्वपर्यायच्छेदेन महाव्रतारोपणमिति, तच्च सातिचारमनतिचारं च तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा यथा पार्श्वनाथतीर्थाद्वीरतीर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्तौ, सातिचारं तु मूलगुणघातिनो व्रतारोपणं तच्छेदोपस्थानीयं । 'परिहार'त्ति परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिन् तत्परिहारविशुद्धिकं, तत् द्विधा - निर्विशमानकं निर्विष्टकायिकं चेति, निर्वि| शमानकास्तदा सेवकास्तदव्यतिरेकात् तदपि निर्विशमानकं, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकाः | तदव्यतिरेकात् तदपि निर्विष्टकायिकं, इह च नवको गणः स्यात्, तत्र चत्वारः परिहारिका स्युः अन्ये तदन्ये तद्वैयावृत्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभृतः, एतेषां च निर्विशमानकानामयं परिहारः - "परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ वीरेहिं पत्तेयं ॥१॥ तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्टम मिह उकोसो इत्तो सिसिरे पत्रक्खामि ||२|| सिसिरे उ जहण्णाई छट्टाई दसमचरमगा हुंति । वासासु अट्टमाई बारसपतओ नेओ ||३|| पारणगे आयामं पंचसु गह दोसऽभिग्गहो भिक्खे । कप्पट्टिया य पइदिण करंति एमेव आयाम ||४||" इह सप्तखेपणासु मध्ये आद्ययोरग्रह एव, पंचसु पुनर्ग्रहः, तत्राप्येकतरया भक्तं वा पानकं वा, एवं द्वयोरभिग्रहोऽवगन्तव्य इति, "एवं छम्मासतवं चरिउं परिहारगा अणुचरंति । अणुचरगे परिहारिय पर्यट्ठिए जाव छम्मासा || ५ || कप्पट्ठिओऽवि एवं छम्मास तवं करेइ सेसा उ | अणुपरिहारगभावं वयंति कप्पट्ठियत्तं च ॥ ६ ॥ ( इय एसो) अट्ठारसमा सपमाणो य वण्णिओ कप्पो । संखेवओ विसेसो सुत्ता एयरस
CDCOCOGDOCSOCJOCDOC@CD6700,
८ शतके २ उद्देशः
॥१२०॥