SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती इति, 'जहा पुढविकाइय'त्ति एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः, 'बंदियेत्यादि, एपा द्वे ज्ञाने सास्वा ८शतके IMR उद्देशः |दनस्तेषूत्पद्यते इतिकृत्वा, सास्वादनश्चोत्कृष्टतः षडावलिकामानः, अतो द्वे ज्ञाने तेषु लभ्येते, 'अणिदिति अनिन्द्रियाः-केव-|| लिनः 'सकाइया 'ति सह कायेन-औदारिकादिशरीरेण पृथ्व्यादिषट्कायान्यतरेण वा ये ते सकायिकाः, ते च केवलिनो|ऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्च ज्ञानानि, मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति, अकायिकास्सिद्धा एवेति । | सूक्ष्मद्वारे 'जहा पुढवित्ति द्वयज्ञानिनः सूक्ष्माः, मिथ्यादृक्त्वात् , 'जहा सकाइ'त्ति बादराः केवलिनोऽपि स्युरिति ते सकायिकवद् भजनया पश्चज्ञानिनः व्यज्ञानिनश्च वाच्याः। पर्याप्तकद्वारे चतुर्विंशतिदण्डके पर्याप्तकनारकाणां त्रीण्यज्ञानानि नियमात् , अपर्याप्तकानामेवासंज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तावस्थायां तेषामज्ञानत्रयमेवेति 'एवं जाव चउरिंदिय'त्ति द्वित्रिचतुरि|न्द्रियाः पर्याप्तका द्वथज्ञानिन एवेत्यर्थः, 'पजत्ता णं भंते! पंचिंदियतिरिक्ख'त्ति पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा | केषांचित् स्यात् केषांचिनेति त्रीणि ज्ञानानि अज्ञानानि वा द्वे ज्ञाने अज्ञाने वा तेषां स्यातामिति,'बेदियाणं दो नाण'त्ति अपर्या| सकद्वीन्द्रियादीनां केषांचित्साखादनसम्यग्दर्शनसद्भावात् द्वे ज्ञाने, केषांचित्तु तदभावात् द्वे अज्ञाने, अपर्याप्तकनराणां सम्यग्दृशामवधिभावे ज्ञानत्रयं यथा तीर्थकृतां, तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु द्वे अज्ञाने, तेषामपर्याप्तकत्वे विभङ्गाभावात् , अत एवोक्तम्'तिनि नाणाई भयणाए दोणि अण्णाणा नियमत्ति,'वाणमंतर'त्ति व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञानाः व्यज्ञाना वा वाच्याः, तेष्वसंज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् , शेषाणां चावधेविभङ्गस्य च भावादिति, 'जोइसिय'त्ति एतेषु संज्ञिभ्य एवोत्पद्यन्ते, तेषामपर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य वाऽवश्यंभावात् त्रीणि ज्ञानानि अज्ञानानि वा स्युरिति ।
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy