________________
श्रीभग० लघुवृत्तौ
क्षिताः, एतत्प्रयोजनत्वाद् गतिग्रहण खेति, तिन्नि नाणाई नियम' त्ति अवधेर्भवप्रत्ययेनान्तरगतावपि भावात्, 'तिणिण अण्णाणाई भयणाएं'ति असंज्ञिनां नरके गच्छतां द्वे अज्ञाने, अपर्याप्तकत्वे विभङ्गाभावात्, संज्ञिनां मिध्यादृष्टीनां त्रीण्यज्ञानानि भवप्रत्यय विभङ्गसद्भावात् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यते, 'तिरियगइयाणं' ति तिर्यग्गतिकानां तदपान्तरालवर्त्तिनां 'दो नाण'त्ति सम्यग्दृष्टोऽवधिज्ञाने पतित एव तिर्यक्षु गच्छन्ति तेन तेषां द्वे एव ज्ञाने 'दो अन्नाणे' त्ति मिथ्यादृष्टयों विभङ्गज्ञाने पतित एव तिर्यक्षु गच्छन्ति तेन तेषां द्वे अज्ञाने, 'मणुस्सगइयाणं'ति 'तिषिण नाणाई भयणाय'त्ति मनुष्यगतौ गच्छन्तः केचिज्ज्ञानिनोऽवधिज्ञानेन सहैव गच्छन्ति, तीर्थकरवत् केचिच्च तद्विमुच्येति तेषां त्रीणि वा द्वे वा ज्ञाने स्यातामिति, ये पुनरज्ञानिनो मनुव्यगतावुत्पत्तुकामास्तेषां पतित एव विभङ्गे तत्रोत्पत्तिः स्यात् अत उक्तम्- 'दो अन्नाणाई नियम'त्ति, 'देवगइय'त्ति देवगतौ ये ज्ञानिनो यातुकामास्तेषामवधिर्भवप्रत्ययो देवायुः प्रथमसमय एवोत्पद्यते अतस्तेषां नारकाणामिवोच्यते 'तिनि नाणाई निय मत्ति, ये त्वज्ञानिनस्तेऽसंज्ञिभ्य उत्पद्यमाना द्वयज्ञानिनः, अपर्याप्तकत्वे विभङ्गाभावात्, संज्ञिभ्य उत्पद्यमानास्तु त्र्यज्ञानिनो, भवप्रत्ययविभङ्गसद्भावात्, अतस्तेषां नारकाणामिवोच्यते 'तिविण अण्णाणाई भयणाएं' 'जहा सिद्ध' त्ति यथा सिद्धाः केवलज्ञानिन एव, एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि सिद्धानां सिद्धगतिकानां चान्तरगत्यभावान्न विशेषोऽस्ति तथापि इह गतिद्वारबलायातत्वात्ते दर्शिताः, 'सइंदिया णं भंते 'ति सेन्द्रिया - इन्द्रियोपयोगवन्तः, ते च ज्ञानिनोऽज्ञानिनश्च ज्ञानिनां चत्वारि ज्ञानानि भजनया, स्यात् द्वे स्यात् त्रीणि स्यात् चत्वारि, केवलज्ञानं नास्ति तेषां अनिन्द्रियज्ञानत्वात्तस्य द्वयादिभावो ज्ञानानां लब्ध्यपेक्षया उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानं, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव, स्यात् द्वे स्यात् त्रीणि
(C)C(CCPOL DOCJOC SOLJCDOCPETA
८ शतके २ उद्देशः