SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ शतके १ उद्देशः DAINIOAmionline HINDIHOOMI alworlm annocoin modi Hollmonth Indian Hoat i योगादिषु प्रत्येकमेकत्वे पडू विकल्पाः, द्विकसंयोगे तु १५ प्रत्येकं, एवं सर्वेष्वपि एकविंशतिः, औदारिकादिशरीरकायप्रयोगादिषु योगादिप प्रत्येको सप्तसु पदेषु एकत्वे सप्त, द्विकसंयोगे तु एकविंशतिः, एवं सर्वे जाता अष्टाविंशतिः, एवमेकेन्द्रियादिपृथ्वीप्रभृतिपञ्चपदैः पूर्वोक्तक| मेण औदारिकादिकायप्रयोगपरिणतद्रव्यद्वयं प्रपश्चनीयं, कियदरं?, यावत्सर्वार्थसिद्धाः,एतच्चैवं-'जइ सव्वट्ठसिद्धअणुत्तरोववाइयकप्पा| ईयवेमाणियदेवपंचिंदियकम्मासरीरकायप्पओगपरिणया किं पञ्जत्तसव्वट्ठसिद्ध जाव परिणया अपज्जत्तसबढ जाव परिणया?,गोयमा! | पञ्जत्तसम्बट्ठजावपरिणयावा, अहवेगे पञ्जत्तसव्वट्ठजाव परिणए अहवेगे अपज्जत्तसम्बट्ठ जाव परिणए'त्ति, एवं वीससापरिणयावित्ति प्रयोगपरिणतद्रव्यद्वयवत् प्रत्येकविकल्पैर्द्विकसंयोगैश्च विश्रसापरिणतेऽपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पश्चादिभेदेषु वाच्यं, | कियदूरं यावदित्याह-'अहवेगे'इत्यादि, अयं च पश्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति ।। अथ द्रव्यत्रयं चिन्त यन्नाह-'तिणि भंते ! दव्व'त्ति इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगे तु षट् , कथं?, आद्यस्यैकत्वे | शेषयोः क्रमेण द्वित्त्वे द्वौ, तथाऽऽद्यस्य द्वित्त्वे शेषयोः क्रमादेकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्त्वेऽन्यः, तथा | द्वितीयस्य द्वित्त्वे तृतीयस्यैकत्वे अन्य इत्येवं षट् , त्रिकयोगे एक एव, जातास्सर्वे दश, एवं मनःप्रयोगादिपदत्रयेऽपि, अत एवाह'एकसंजोगो'इत्यादि, सत्यमनःप्रयोगादिषु चैकत्वे चत्वारः, द्विकयोगे तु द्वादश, कथं ?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमादनेकत्वेन त्रयो लब्धाः, पुनरन्ये त्रय आद्यस्य बहुत्वेन शेषाणामेकत्वेन, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमादनेकत्वेन द्वौ, पुनद्वितीयस्य बहुत्वेन शेषयोरेकत्वेन द्वावेव, तृतीयचतुर्थयोरेकत्वबहुत्वाभ्यामेकः, पुनस्तर्द्विपर्ययेणैकः, एवं द्वादश, त्रिकयोगे चत्वारः सर्वेऽपि २० 'एवं दुयासंजोग'इत्यादि 'एत्थवि तहेव'त्ति अत्रापि द्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिकारे andimages andulis DOWNLOHARDAGIN WHICH Imipast - n Wom -
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy