________________
श्रीभग
८ शतके १ उद्देशः
लघुवृत्तौ ।
Imali
इह तु बादरवायुकायिका गर्भजपञ्चेन्द्रियतिर्यङ्मनुष्याच पर्याप्तकविशेषणा अध्येतव्याः, शेषास्त्वपर्याप्तक विशेषणा एव, यतःबादरवायुकायिकादीनां पर्याप्तावस्थायामपि वैक्रियारंभणत औदारिकमिश्रशरीरकायप्रयोगो लभ्यते,शेषाणां पुनरपर्याप्तकावस्थायामेवेति । 'जहा ओगाहणसंठाणे'त्ति प्रज्ञापनाया एकविंशतितमपदे, तत्रेदं सूत्रम्-'जइ वाउकाइयएगिंदियवेउब्वियसरीरका| यप्पओगपरिणए कि सुहुमवाउकाइयएगिदिय जाव परिणए बायरवाउकाइयएगिदियजाव परिणए ?, गोयमा! नो सुहुम जाव
परिणए, बायर जाव परिणए'इत्यादि, 'एवं जहा ओगाहणसंठाणे'त्ति तत्रेदं सूत्रम्-गोयमा! नो अमणुस्साहारगसरीरका| यप्पओगपरिणए, मणुस्साहारगसरीरकायप्पओगपरिणए' इत्यादि, एवं ओगाह'त्ति, कम्मस्स भेओ'त्ति,स चायं भेदः-'बेंदियकम्मासरीरकायप्पओगपरिणए, एवं तेंदिय० चउरिंदिय०' इत्यादि । अथ द्रव्यद्वयं चिन्तयन्नाह-'दो भंते'इत्यादि (सू. ३१३) इह प्रयोगपरिणतादिपदत्रये एकत्वे त्रयो विकल्पाः, द्विकयोगेऽपि त्रय एव, एवं जाताः षट्, एवं मनःप्रयोगादित्रयेपि षट्, | सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि, तेष्वेकत्वे चत्वारः, द्विकयोगे तु षट् , एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयो|गपरिणतादीनि षट् पदानि, तेष्वेकत्वे षट्, द्विकयोगे तु पञ्चदश, सर्वेऽप्येकविंशतिः, सूत्रे च 'अहवेगे आरंभसचमणप्पओगपरि| णए' इत्यादिनेह द्विकयोगप्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन दर्शयतोक्तम्-'एवं एएणं गमेग'ति एव| मेतेन गमेन आरम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेन नेतव्यं समस्तं दव्यद्वयसूत्रं द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनःप्रयोगादिपदसमूहे यावन्तो द्विकसंयोगात्पद्यते सर्वे ते तत्र वाच्याः, तत्रारम्भसत्यमनःप्रयोगादिषु दर्शिता एव, आरम्भादिपदषटविशेषितेषु पुनरित्थमेव, त्रिषु मृषामनःप्रयोगादिषु चतुषु च सत्यवाक्प्र
॥११